श्रीरामजन्मभूमिः - ध्वजपूजनसहितः चतुर्थदिवसे स्नपनम् अधिवासश्च सम्पन्नौ
अयोध्यानगरम्, २४ नवम्बरः (हि.स.)। श्रीरामजन्मभूमौ ध्वजारोहणसमारोहस्य चतुर्थदिवसे परिसरस्थिते यज्ञशालायां पूज्यदेवीदेवतानां विविधपूजनानन्तरं ध्वजस्य स्नपनपूजनं तथा आरोहणाय नियोजितस्य ध्वजस्य नानाविधान्यधिवासकर्माणि सम्पन्नानि। सोमवासरे चतुर्थदिवसस्
यज्ञशाला में राम मंदिर ट्रस्ट कोषाध्यक्ष


यज्ञशाला में हवन


अयोध्यानगरम्, २४ नवम्बरः (हि.स.)। श्रीरामजन्मभूमौ ध्वजारोहणसमारोहस्य चतुर्थदिवसे परिसरस्थिते यज्ञशालायां पूज्यदेवीदेवतानां विविधपूजनानन्तरं ध्वजस्य स्नपनपूजनं तथा आरोहणाय नियोजितस्य ध्वजस्य नानाविधान्यधिवासकर्माणि सम्पन्नानि।

सोमवासरे चतुर्थदिवसस्य पूजनं नित्यक्रमेण प्रातः अष्टवादने आरब्धम्। प्रातःकालात् वैदिकमर्मज्ञैः आचार्यैः क्रमशः नित्यकर्मप्रक्रियायां गणपतिपूजनं, पञ्चाङ्गपूजनं, षोडशमातृकापूजनं च सम्पन्नम्। ततः योगिनीपूजनं, क्षेत्रपालपूजनं, वास्तुपूजनं, नवग्रहपूजनं च तथा प्रमुखमण्डलरूपेण रामभद्रमण्डलस्य अन्येषां पूज्यमण्डलानां च आह्वानपूजनं कृतम्। तदनन्तरं सूर्यमन्त्राहुतयः, श्रीसूक्तमन्त्रैः सह यज्ञाहुतयश्च दत्ताः। ध्वजमन्त्रस्यापि आहुतयः आरब्धः।

ध्वजस्नपनविधौ औषध्यधिवासः, गन्धानधिवासः, शर्कराधिवासः, जलाधिवासः च विधीयन्ते स्म। अस्य प्रयोजनं ध्वजं पूज्योपकरणानि च स्थलञ्च शुद्धीकृत्य तेषु दिव्यताया आवाहनं कर्तुम्। 'अधिवास' इति शब्दस्य अर्थः—पूजनद्रव्येषु, जले, कलशे, ध्वजदण्डे, ध्वजपत्रे च दिव्यशक्तेः निवासस्य स्थापना। अत एव पूजनस्य प्रत्येकः अङ्गः शुभः, पवित्रः, देवोपयोगी च मन्यते।

पूजनकाले यजमानः डॉ. अनिल मिश्रः सपत्नीक उपस्थिताः आसन्। अस्मिन् अवसरे मुख्याचार्यः चन्द्रभानुशर्मा, उपाचार्यः रविन्द्र पैठणे, यज्ञब्रह्मा तथा आचार्यः पंकजशर्मा इत्येतेन पूजनं सम्पन्नम्। पूजनव्यवस्थायाः प्रमुखः आचार्यः इन्द्रदेवमिश्रः आचार्यः पंकजकौशिकश्च सर्वाणि शुभकार्याणि सम्यक् सम्पन्नानीति पर्यवेक्षां कृतवन्तौ।

हिन्दुस्थान समाचार / अंशु गुप्ता