Enter your Email Address to subscribe to our newsletters

लखनऊ, 24 नवंबरमासः (हि.स.)।
सोमवासरे चलचित्र-जगत् महत् दुर्वार्तां प्राप्नोत्। हिन्दी-चित्रपट-उद्योगस्य प्रख्यातः अभिनेता ‘हीमैन’ इति नाम्ना प्रसिद्धः धर्मेन्द्रः नवत्यष्टाधिक-वर्षाणां (८९) वयस्यां लोकं परित्यक्तवान्। अस्य दुःखदस्य समाचारस्य श्रवणेन समग्रे चलचित्र-जगति शोक-छाया व्याप्ता। धर्मेन्द्रस्य निधनम् इति वर्तायाम् उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन सहितैः अनेकेन राजनेतृभिः गम्भीरः शोकः व्यक्तः।
मुख्यमन्त्रिणा योगिना स्वस्य सामाजिक-माध्यम-खाते ‘एक्स्’ इत्यत्र लिखितं यत् “लोकप्रियः चलचित्र-अभिनेता धर्मेन्द्रस्य निधनं अतीव दुःखदं तथा कला-चित्रपट-क्षेत्रस्य अपूरणीय-हानिः। तस्मै मम विनम्रा श्रद्धाञ्जलिः। प्रभुना श्रीरामेण प्रार्थ्यते यत् दिवंगतस्य आत्मनः सद्गतिः भवतु, तथा शोकाकुल-परिजनैः प्रशंसकैश्च एतत् अतिदुःखं सहनीयम् भवतु। ॐ शान्तिः।”
उपमुख्यमन्त्री केशव-प्रसाद-मौर्येण अपि एक्स्-खाते लिखितम्—
“पद्मभूषण-सम्मानितस्य, भारतीय-चित्रपट-क्षेत्रस्य विख्यात-अभिनेतुः पूर्वसांसदस्य च धर्मेन्द्रस्य निधनवार्ता अतिदुःखदाऽस्ति। सिनेमा-जगति तस्य अद्वितीयं योगदानं सदैव अविस्मरणीयं भविष्यति। ईश्वरः दिवंगत-पुण्यात्मानं स्व-श्रीचरणयोः समीपे स्थानं दद्यात्, शोक-संतप्त-परिजनान् च संबलम् अनुदद्यात्। ॐ शान्तिः।”
भारतीय-जनता-पक्षस्य प्रदेशाध्यक्षः भूपेन्द्रसिंह-चौधरी लिखति यत् “हिन्दी-चित्रपट-जगतः सुप्रसिद्ध-अभिनेता भारतीय-जनता-पक्षस्य पूर्वमाननीय-सांसदः धर्मेन्द्रस्य निधनवार्ता अत्यन्तं दुःखदाऽस्ति। मम संवेदनाः शोकाकुल-परिजनैः सह सन्ति। धर्मेन्द्रस्य निधनं चलचित्र-जगतः कृते एकम् अपूरणीयं नाशम्। ईश्वरः दिवंगत-पुण्यात्मानं स्व-श्रीपादयोः समीपे निवासं दद्यात्, शोक-संतप्त-जनानां समर्थकानां च दुःख-सहन-शक्तिं दद्यात्। भावभीनी श्रद्धाञ्जलिः।”
बहुजन-समाज-पक्ष्याः राष्ट्रीयाध्यक्षा पूर्वमुख्यमन्त्र्यपि मायावती लिखति यत्“भारतीय-चित्रपट-उद्योगस्य विख्यात-व्यक्तित्वेषु एकः दिग्गज-अभिनेता धर्मेन्द्रस्य अद्य निधनवार्ता अतिदुःखदाऽस्ति। मिलनसार, हमदर्द, हर्षप्रकृतित्वेन प्रसिद्धः धर्मेन्द्रः दीर्घकालपर्यन्तं चलचित्र-जगति चित्रपट-प्रेमिणां च हृदये राजित्वा गतः। तस्य परिवारस्य, चाहनेवालानां च सर्वेषां प्रति मम गाढा संवेदनाः। सर्वेभ्यः एतद् दुःखं सहनीयम् अस्तु इति कुदरतेः प्रार्थना।”
निषाद-पक्ष्याः अध्यक्षः, उत्तरप्रदेश-सरकारस्य मत्स्य-विभागमन्त्री च डॉ॰ संजय-निषादः लिखति यत् “भारतीय-चित्रपट-जगतः महत् अभिनेता धर्मेन्द्रस्य निधनवार्ता अतिदुःखदाऽस्ति। तस्य सादृश्यं, अभिनयः करिष्मा च नित्यं हृदयेषु जीविष्यति। ईश्वरः दिवंगत-आत्मानं शान्तिं दद्यात्।”
---------------
हिन्दुस्थान समाचार