जर्मनदेशीयः प्रशिक्षकः बीयर्सडॉर्फः अद्य आगच्छति “मिनी ब्राज़ीलम्”; पादकन्दुकक्रीडकैः सह संवादं करिष्यति
– डाइटमारः बीयर्सडॉर्फः अद्य ग्रामं विचारपुरम् आगमिष्यति। शहडोलम्, २४ नवम्बरमासः (हि.स.)। जर्मनीदेशस्य विख्यातस्य पादकन्दुकसंघ-एफ्.सी. इङ्गोल्स्टेड्–४ (FC Ingolstadt 4) इत्यस्य क्रीडाप्रशिक्षकः डाइटमारः बीयर्सडॉर्फः अद्य सोमवासरे मध्यप्रदेशस्य शहड
जर्मन कोच बीयर्सडॉर्फ


– डाइटमारः बीयर्सडॉर्फः अद्य ग्रामं विचारपुरम् आगमिष्यति।

शहडोलम्, २४ नवम्बरमासः (हि.स.)। जर्मनीदेशस्य विख्यातस्य पादकन्दुकसंघ-एफ्.सी. इङ्गोल्स्टेड्–४ (FC Ingolstadt 4) इत्यस्य क्रीडाप्रशिक्षकः डाइटमारः बीयर्सडॉर्फः अद्य सोमवासरे मध्यप्रदेशस्य शहडोलजनपदे स्थितं “मिनी–ब्राज़ील” इति ख्यातं ग्रामं विचारपुरम् आगमिष्यति। डाइटमारः बीयर्सडॉर्फः जर्मनीदेशे प्रशिक्षणं प्राप्तवन्तः य एते पादकन्दुकक्रीडकाः तथा “मिनी ब्राज़ील” इत्यस्य अन्ये क्रीडकाः तैः सह संवादं कृत्वा मार्गदर्शनं अनुभवञ्च चर्चा करिष्यन्ति।

उल्लेखनीयम् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना “मन की बात” नाम कार्यक्रमे अन्येषु च अन्ताराष्ट्रीयमञ्चेषु मध्यप्रदेशस्य शहडोलजनपदस्य विचारपुरग्रामस्य पादकन्दुकसंघं “मिनी–ब्राज़ील” इति कथ्य राष्ट्रीय-अन्ताराष्ट्रीयं च ख्यातिं प्राप्तम्। प्रधानमन्त्रिणः उल्लेखोत्तरं जर्मनीदेशस्य प्रतिष्ठितः संघः एफसी Ingolstadt 4 इत्यनेन विचारपुरस्य क्रीडकानां प्रशिक्षकस्य च ४–१२ अक्टूबर् २०२५ पर्यन्तं प्रशिक्षणावसरः प्रदत्तः।

प्रशिक्षणार्थं विचारपुरात् पञ्च क्रीडकाः एकश्च महिलाप्रशिक्षिका चयनिताः— लक्ष्मी सहीस (प्रशिक्षिका), सानिया कुंडे, सुहानी कोल, प्रीतम कुमार, वीरेन्द्र बैगा, मनीष घसिया इति। “मिनी–ब्राज़ील” इति नामप्रसिद्धं शहडोलजनपदस्य विचारपुरं यत्र पादकन्दुकक्रीडकाः स्वेन उत्साहेन प्रतिभया च मध्यप्रदेशस्य गौरवं वर्धयन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani