Enter your Email Address to subscribe to our newsletters

सतना, २४ नवम्बरमासः (हि.स.)। मुख्यमन्त्रिणः डॉ॰ मोहनयादवस्य अभिनवप्रयत्नेन मध्यप्रदेशे विमानपर्यटनक्षेत्रे गौरवपूर्णं नूतनं प्रकरणम् आरब्धम् अस्ति। प्रदेशे विमानसंयोजने सुदृढीकरणं पर्यटकसंख्यावृद्धिश्च कारणाय मध्यप्रदेशपर्यटनमण्डलेन पीएमश्रीहेलिपर्यटनसेवाया संचालनं २० नवम्बरदिनाङ्कात् आरब्धम्। सतनायाः प्रसिद्धे धार्मिकपर्यटनस्थले चित्रकूटे तथा मैहरजनपदस्य प्रख्यातायां श्रीमद्माताशारदाशक्तिपीठे मैहरे च अस्याः सेवायाः विधिवत् शुभारम्भः अद्य सोमवासरे भवति। अस्याः अन्तर्गते मैहरात् प्रातः ९ वादने, चित्रकूटात् प्रातः ९.५० वादने प्रथमं उदग्रयान-उड्डयनं भविष्यति।
सतनामहान्तिकारी डॉ॰ सतीशकुमारः एस इत्यनेन निगदितं यत् नियोजितमार्गस्य समयसूच्याः अनुसारं सप्ताहे द्वौ दिवसेसोमवासरम्, मंगलवारं च मैहरचित्रकूटयोः कृते पीएमश्रीहेलिपर्यटनसेवाया संचालनं भविष्यति। जबलपुरात् प्रातः ८ वादने आरभ्य ९ वादने मैहरम् आगमनं भविष्यति। मैहरे ९.१० वादने प्रस्थित्य ९.४० वादने चित्रकूटम् आगमिष्यति। चित्रकूटात् तस्यैव दिने ९.५० वादने प्रस्थित्य १०.२० वादने मैहरम्, ततो मैहरात् १०.३० वादने प्रस्थित्य ११.३० वादने जबलपुरम् प्रतिनिवर्तनं भविष्यति। उदग्रयानेन षट् जनाः आरूढा भविष्यन्ति।
मैहरचित्रकूटयोः शुल्कं २५०० रूप्यकाणि, मैहरजबलपुरयोः ५००० रूप्यकाणि, चित्रकूटजबलपुरयोः ७५०० रूप्यकाणि प्रतिव्यक्तिं भविष्यति। यात्रायै https//www.flyola.in तथा https//airirctc.co.in/flyola इति स्थलेषु गत्वा चिटीका आरक्षितुं शक्यते।
मैहरजनपदे पीएमश्रीहेलिपर्यटनसेवायाः, सतनाजनपदस्य चित्रकूटे च अस्याः प्रथमदिने उत्साहपूर्णं पारम्परिकं स्वागतं भविष्यति। दंडाधिकारी–डॉ॰ सतीशकुमारः एस चित्रकूटे, दंडाधिकारी मैहररानी बाटड इत्येषा च मैहरे स्थानीयप्रशासनिकाधिकारिणां प्रति सुचारुसारथ्यनिमित्तं आवश्यकनिर्देशान् दत्तवन्ती। मैहरे अतिथिगृहदेवालयमार्गस्य पृष्ठभागे विनिर्मितहेलिपैडस्थानके, चित्रकूटे च आरोग्यधामे स्थितहेलिपैडस्थानके पीएमश्रीहेलिपर्यटनसेवाया संचालनं भविष्यति। सतनामैहरजनपदयोः नियमितसंचालनेन मध्यप्रदेशस्य पर्यटनाय नूतना दिशा लभ्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani