मध्यप्रदेशस्य पंचायताः समृद्धाः भवन्तु इति उद्देश्येन अद्य भोपालनगरे त्रिदिवसीया राज्यस्तरीया कार्यशालारभ्यते
- मुख्यमंत्री डॉ. यादवः करिष्यति कार्यशालायाः शुभारम्भः भोपालम्, 24 नवंबरमासः (हि.स.)। मध्यप्रदेशे पंचायतान् आत्मनिर्भरान् समृद्धांश्च कर्तुं उद्देश्येन अद्य सोमवासरे भोपालस्य कुशाभाऊ-ठाकरे-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे त्रिदिवसीयं राज्यस्तरीय
सीएम मोहन यादव


- मुख्यमंत्री डॉ. यादवः करिष्यति कार्यशालायाः शुभारम्भः

भोपालम्, 24 नवंबरमासः (हि.स.)। मध्यप्रदेशे पंचायतान् आत्मनिर्भरान् समृद्धांश्च कर्तुं उद्देश्येन अद्य सोमवासरे भोपालस्य कुशाभाऊ-ठाकरे-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे त्रिदिवसीयं राज्यस्तरीयं कार्यशाला-आयोजनं क्रियते। पंचायत-ग्राम्यविकास-विभागेन आयोजितायाः अस्याः कार्यशालायाः उद्घाटनं अद्य मुख्य मन्त्री डॉ. मोहन-यादवः करिष्यन्ति। अस्मिन्नवसरे मुख्य मन्त्री डॉ. यादवः “वाटर-शेड-महोत्सवस्य” उद्घाटनं कृत्वा “जल–गङ्गा–संवर्धन-अभियाने” उत्कर्षेण कार्यं कृतवन्तः अधिकारी-कर्मचारीभ्यः पुरस्कारान् दास्यन्ति।

कार्यशालायां उपमुख्यमन्त्री राजेन्द्रः शुक्लः, जगदीशः देवडा, पंचायत-ग्राम्यविकास-मन्त्री प्रह्लादः पटेलः, नगरीय-विकास-निवास-मन्त्री कैलाशः विजयवर्गीयः, लोक-स्वास्थ्य-यन्त्रिकी-मन्त्री संपत्या उइके, जनजाति-कार्य-मन्त्री डॉ. कुँवर-विजय-शाह, पंचायत-ग्राम्यविकास-राज्यमन्त्री राधा-सिंह इत्यादयः जनप्रतिनिधयः, विषयविशेषज्ञाः, प्रशासनिकाधिकारीणश्च उपस्थिताः भविष्यन्ति। कार्यशालायां त्रिदिनपर्यन्तं मन्थनं भविष्यति।

पंचायतराजविभागस्य संचालक-सह-आयुक्तः स्वल्पसिंहः अवदत् यत् अस्याः कार्यशालायाः मुख्योऽभिप्रायः पंचायतान् प्रशासनिक-आर्थिक-सामुदायिक-स्तरेषु दृढीकरणं कृत्वा ताः आत्मनिर्भराः समृद्धाश्च कर्तुं सुदृढ-रणनीतिः निर्मीयते। अस्यां कार्यशालायां स्थानीय-शासनस्य पारदर्शिता-जवाबदेहिता, मनरेगा, आजीविका-मिशन, सामाजिक-अंकेक्षणम्, डिजिटल-ट्रैकिंग-निरीक्षणम्, वित्तीय-व्यवस्थापनम्, पंचायत-शासनम्, “स्वनिधिः ते समृद्धिः” अभियानम्, वाटर-शेड-परियोजनानां क्रियान्वयनम्, शुद्ध-पेय-जल-व्यवस्था, स्वच्छ-ग्राम-योजना, विविध-राष्ट्रीय-योजनानां प्रभावकारी सञ्चालनम्, पेसा-ग्रामसभानां वर्तमानस्थिति-सफल-क्रियान्वयनम् इत्यादिषु विस्तीर्णा चर्चा प्रशिक्षणं च भविष्यति।

समितिचर्चा तथा तकनीकी-सत्राणि -अस्यां कार्यशालायां मन्त्रिणाम्, अपरमुख्यसचिवाणां, विषयविशेषज्ञाणां विभागीय-प्रधान-कार्यालयस्य च सहभागितया उच्चस्तरीया समितिचर्चा भविष्यति। प्रतिदिनं तकनीकी-सत्रेषु केस-स्टडी, समूह-गतिविधयः, क्षेत्राधारित-दृष्टान्ताः, अनुभव-सामायिकी-सत्राणि इत्यादिभिः सहभागिभ्यः व्यावहारिकं ज्ञानं प्रदास्यते।

द्विसहस्रात् अधिकाः जनप्रतिनिधयः-अधिकारीणः च सहभागी-भविष्यन्ति

स्वल्पसिंहेनोक्तं यत् त्रिदिवसीयं कार्यशाला-आयोजनं द्विसहस्रात् अधिकैः जनप्रतिनिधिभिः तथा अधिकारीभिः सह सम्पन्नं भविष्यति। अस्मिन् आयोजनमध्ये जिलापंचायताध्यक्षाः, उपाध्यक्षाः, मुख्यकार्यापालन-अधिकारीण-जनपद-ग्राम-पंचायतानां सरपञ्चादयः, अन्ये राज्यस्तरीया पदाधिकारीणश्च सहभागी भविष्यन्ति। कार्यशालायां “जल–गङ्गा–संवर्धन-अभियाने” उत्कर्षेण कार्यं कृतवन्तः अधिकारी-कर्मचारी-जनपद-जिला-स्तरीय-समूहाः च विशेषतया सम्मानिताः भविष्यन्ति।अस्मिन् अभियाने श्रेष्ठकर्म-निर्वाहकेषु खण्डवा-जनपदः प्रथमः, रायसेन-द्वितीयः, बालाघाट-तृतीयः आसीत्। “खेत-तालाब-निर्माण” इत्यस्य श्रेणौऽपि ‘ए’ तथा ‘बी’ इति द्विषु वर्गेषु पुरस्काराः दास्यन्ते। ‘ए’-वर्गे अनूपपुर-जिलः, ‘बी’-वर्गे बालाघाट-जनपदः सम्मिलितः।

एवं जल-गङ्गा-संवर्धन-अभियाने विकासखण्डस्तरे श्रेष्ठकार्यं कृतवन्तः जनपद-पंचायताः अपि ‘ए’-‘बी’ वर्गयोः पुरस्कारान् प्राप्स्यन्ति—‘ए’-वर्गे बालाघाटस्य बिरसा-जनपदः, ‘बी’-वर्गे अनूपपुरस्य पुष्पराजगढ-जनपदः।

मनरेगा-परिषदस्य राज्यस्तरीय अधिकारी-कर्मचारीणः अपि अस्मिन् अभियाने उत्कृष्टं कार्यं कृतवन्तः सन्ति, तेऽपि सम्मानिताः भविष्यन्ति—राजीवगान्धीजलग्रहणक्षेत्र-प्रबन्धन-अभियानस्य अतिरिक्तसंचालकः विवेकदवे, तकनीकीविशेषज्ञा शिल्पी-अधोलिया, मनरेगा-परिषदः सिस्टम-एनालिस्ट ओबेस्-अहमदः, अधीक्षण-यंत्री सोमनसिंह-डाबरः, परियोजनाधिकारी आकाङक्षासिंह, सहायकप्रबन्धकः पियूषप्रताप-सिंह, नॉलेज-पार्टनर-दलनायकः सुमेन्द्रपुनिया, जीआईएस-मेनेजर् राजेन्द्र-स्वामी, परियोजना-मेनेजर् नुपुन्-नवानी इत्यादयः। एवमेव परियोजना-संचालकः स्वान-अंशुमन्-राजः, एमपीएसईडीसी-प्रमुखः डॉ. राकेश-दुबे, जीआईएस-जनरल-मेनेजर् अशोकः पैडी, तकनीकी-लीड् पुलकेश-दासः, एसोसिएट्-इंजीनीयर् सागरः तन्तुवाय् इत्यादयः अपि सम्मानमवाप्स्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani