Enter your Email Address to subscribe to our newsletters

महिलानां विरुद्धे हिंसा उन्मूलनाय अंताराष्ट्रिय दिवसे विशेषः
देहरादूनम्, 24 नवंबरमासः (हि.स.)।पौडीगढवालस्य शान्तपर्वतश्रेण्यां स्थितः राजकीयः “नारी-निकेतन” नाम महिला-कल्याण-पुनर्वास-केंद्रं तासां बालिकानां निमित्तम् आशाघररूपेण स्थितं, याः स्वजीवने कठिनपरिस्थितीनां सामना कृतवन्त्यः। संवत्सरे १९८४–८५ कोटद्वारे स्थापितम् एतत् संस्थानम् पीडितानां, परित्यक्तानां, सामाजिकशोषणपीडितानां च बालिकानां संरक्षणम्, शिक्षणम्, कौशलविकासः, सम्मानयुक्तजीवनस्य अवसरः चेति उद्दिश्य निरन्तरं कार्यं करोति।
राज्यसर्वकारेण महिलाबालिकानां कल्याणं सर्वोच्चप्राथमिकतया स्वीकृतम् अस्ति। तस्मिन् क्रमणि मुख्यमन्त्रिणः पुष्करसिंहधामीमहाभागस्य दृढनिर्देशनम्, मार्गदर्शनम्, संरक्षणनीतयश्च नारीनिकेतनादीनि संस्थानानि प्रत्यक्षं लाभयन्ति। मुख्यमन्त्रिणा महिला-सुरक्षा, कौशलविकास, पुनर्वास-कार्यक्रमाः च दृढीकृताः, येन संस्थानस्य कार्यप्रणाली सेवाश्च अत्यन्तं सुधारिताः। अस्य नेतृत्वे एतत् केन्द्रं केवलं आश्रयं न, अपि तु जीवनस्य पुनर्निर्माणस्य अवसरः जातम्।
एतेषां नीतिसुदृढतासु सफलतया प्रवर्तनं यत्, तस्य दायित्वम् अधीक्षिका विजयलक्ष्मीभट्टमहाभागा यथावत् बिभर्ति। तस्याः संवेदनशीलनेतृत्वे केन्द्रे नूतनजीवनकथाः रच्यन्ते। सा न केवलं प्रबन्धनम्, अपि तु प्रत्येकबालिकायाः मनोवृत्तेः, शिक्षायाः, रुचीनां, भविष्य-आवश्यकतानां च विचारं कुर्वन्ती ताः सम्यक् मार्गदर्शयति। तदनया संस्थानं सुरक्षितगृहस्य रूपं प्राप्तम्, यत्र निवसन्त्यः बालिकाः आत्मानं संरक्षितम्, अवगतं, स्वीकिृतं च मन्यन्ते।
जिलापरिवीक्षा-अधिकारी अरविन्दकुमारः कथितवान् यत् संस्थाने सम्प्रति १३ बालिकाः प्रविष्टाः, याः विद्यालयीनशिक्षां स्टेनो, कम्प्यूटर, ब्यूटीशियन, क्रीडाप्रशिक्षणादिकैः कौशलविकास-कार्यक्रमैः सह प्राप्नुवन्ति। ४ बालिकाः होटल-प्रबन्धन-पाठ्यक्रमे, ४ ब्यूटीशियन-पाठ्यक्रमे, १ स्टेनो-पाठ्यक्रमे, १ क्रीडाप्रशिक्षणे, ३ कम्प्यूटर-बेसिक-पाठ्यक्रमे प्रशिक्ष्यन्ते।मनोवैज्ञानिक-परामर्शः, पोषकभोजनम्, वर्दी, अध्ययन-सामग्री, आत्मनिर्भरता-वर्धनविशेषप्रशिक्षणानि च सर्वासां दिनचर्यायाः अङ्गानि भवन्ति। अस्य प्रशिक्षणस्य साकारफलरूपेण संस्थानस्थिताया एकस्याः बालिकायाः हालि काम्स-कम्पनी हरिद्वारे सुरक्षाकर्मणि नियुक्तिः अभवत्, यत् मुख्यमन्त्रिणः नीतिनां संस्थानस्य च प्रयत्नानां उत्कृष्टफलम् अस्ति।
संस्थाने द्विमंजिलभवने हॉलः, कक्षाः, भोजनकक्षः, पाकगृहं, शुचिदाराः स्वच्छशौचालयाः च सुस्थित्या निर्मिताः सन्ति। रात्रिकालीनसुरक्षायै स्ट्रीट-लाइट्, इन्वर्टरम्, विद्युत्सुविधाश्च दत्ताः, यत् बालिकानां सुरक्षितम् अनुकूलं च वातावरणं सुनिश्चितयति। जिलाधिकारी स्वातिः एस् भदौरियायाः निर्देशनम् अनुसृत्य विद्यालयगमनाय, चिकित्सyai, आपत्कालीन-सेवायै च वाहनव्यवस्थापि क्रियते।
संस्थानम् अनाथ-आरक्षण-नीतिम् अनुसृत्य केवलं बालानां नारीणां संरक्षणं अध्ययनं च न करोति, अपि तु तासां रोजगार-अवसरानपि प्रदानं करोति। पौडिदेशे गतद्वयोः वर्षयोः अधिकं २५० बालिकानां नारीणांच संरक्षण-अध्ययन-कार्यं सम्पन्नम्। १८००० बालकान् बाल-अपराध, बाल-विवाह, बाल-अधिकाराः इत्यादिषु जागरूकतायै ६००-अधिक-कार्यक्रमाः आयोजिताः।
मुख्यमन्त्रिणः पुष्करसिंहधामीमहाभागस्य नेतृत्वे राज्यसरकारया यत् “सुरक्षित-शिक्षित-सशक्ता बालिका” इति विशालं स्वप्नं कार्यरूपेण परिवर्त्यते, तस्य साक्षात् स्फूर्तिदायकं रूपम् अस्ति नारीनिकेतनं पौडिगढवालम्। अत्र निवसन्त्यः बालिकाः केवलं संरक्षणं न प्राप्नुवन्ति, अपि तु नूतनजीवनस्य दिशा अपि अवाप्नुवन्ति—यत्र तासां स्वप्नानि पुनरुदितानि भवन्ति, पादाः च दृढतया आत्मनिर्भरत्वस्य मार्गे चरन्ति।नारीनिकेतनं अद्य आश्रयात् अधिकं तदेव स्थानं जातम्, यत्र संघर्षः अवसरं भवति, अवसरः आत्मविश्वासं जनयति, आत्मविश्वासः च सफलताां साधयति—एवमेव अनेन संस्थानेन प्राप्ता महान् उपलब्धिः।
हिन्दुस्थान समाचार