खरगोणम् – जनपद-उद्योगकार्यालये अद्य नियुक्ति- उपक्रमस्य इत्यस्य आयोजनम्
खरगोनम्, 24 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य खरगोण-जनपदे युवाभ्यः रोजगार-अवसरान् उपलब्धान् कर्तुम् उद्दिश्य अद्य सोमवासरे प्रातः दशवादनात् द्वादशवादनपर्यन्तं जिल्ला-रोजगार-कार्यालयेन प्लेसमेण्ट-ड्राइव इत्यस्य आयोजनं क्रियते। प्लेसमेण्ट-ड्राइवस्य आय
इंदौरः रोजगार मेले


खरगोनम्, 24 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य खरगोण-जनपदे युवाभ्यः रोजगार-अवसरान् उपलब्धान् कर्तुम् उद्दिश्य अद्य सोमवासरे प्रातः दशवादनात् द्वादशवादनपर्यन्तं जिल्ला-रोजगार-कार्यालयेन प्लेसमेण्ट-ड्राइव इत्यस्य आयोजनं क्रियते। प्लेसमेण्ट-ड्राइवस्य आयोजनं पुरातन-कलेक्ट्रेट-परिसरे स्थिते जनपदरोजगारकार्यालये भविष्यति। अस्मिन् आयोजन-क्रमे पीथमपुरे (जिला-धार) अवस्थित्या: श्री-वेद-इण्डस्ट्रीज् इति कम्पनीद्वारा अभ्यर्थीनां नियुक्तिः भविष्यति।

जनपद-रोजगार-अधिकारी प्रीतिबाला सस्ते इत्यनेनोक्तं यत् कम्पनी-स्थाने मशीन-ऑपरेटर इत्यस्य पदे अभ्यर्थीनां चयनं करिष्यते। तत्र आवेदकानां आयुसीमा 21 वर्षात् 30 वर्षपर्यन्तं निर्धारिता। चयनित-अभ्यर्थिभ्यः 20,299 रूप्यकाणां वेतनं दास्यते, यस्मिन् अटेण्डन्स्-बोनस्, प्रोडक्टिविटी-बोनस्, लॉयल्टी-बोनस्, ई-पी-एफ् तथा ई-एस्-आई-सी इत्यादयः सुविधाः समाविष्टाः सन्ति। एतेषां पदानां कृते शैक्षणिकी-योग्यता द्वादश-श्रेणी, आई-टी-आई अथवा स्नातक-उत्तीर्णा निर्दिष्टा अस्ति।

इच्छुक-अभ्यर्थिभिः स्वैः सह रिज्यूमे/सी-वी, रोजगार-कार्यालयस्य पंजीयन-प्रमाणपत्रम्, समग्र-आई-डी, आधार-कार्ड, अन्ये शैक्षणिक-प्रमाणपत्राणां छायाप्रतयः, द्वे पासपोर्ट–आकारछायाचित्रे च आनीयम् अनिवार्यम्। अधिक-विवरणार्थं सहायतासङ्ख्या 07282–232787 इत्यत्र सम्पर्कः कर्तव्यः।

हिन्दुस्थान समाचार / अंशु गुप्ता