श्रीराममन्दिरस्य शिखरे श्वः धर्मध्वजः उद्वेष्टयिष्यते; मुख्यमन्त्री योगिआदित्यनाथः संघस्य प्रमुखश्च अयोध्यां प्राप्तवन्तौ
मन्दिरपरिसरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन सज्जतायाः परीक्षणं कृतम्। लखनऊनगरम्, २४ नवम्बरमासः (हि.स.)। प्रधानमन्त्रिनरेन्द्रमोदी मङ्गलवारे अयोध्यायां श्रीरामजन्मभूमिमन्दिरे शिखरे ध्वजं प्रतिष्ठापयिष्यन्ति। अस्मिन् समारोहेषु राष्ट्रियस्वयंसेवकस
राम मंदिर


मन्दिरपरिसरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन सज्जतायाः परीक्षणं कृतम्।

लखनऊनगरम्, २४ नवम्बरमासः (हि.स.)। प्रधानमन्त्रिनरेन्द्रमोदी मङ्गलवारे अयोध्यायां श्रीरामजन्मभूमिमन्दिरे शिखरे ध्वजं प्रतिष्ठापयिष्यन्ति। अस्मिन् समारोहेषु राष्ट्रियस्वयंसेवकसंघस्य सरसङ्चालकः डॉ॰ मोहनरावभागवत् अपि उपस्थिताः भविष्यन्ति। डॉ॰ भागवतः अयोध्यां प्राप्ताः, सोऽपि सोमवासरे रामजन्मभूमिपरिसरं गत्वा रामलाल इत्यस्य दर्शनम् अकरोत्। मुख्यमन्त्रिणा योगिआदित्यनाथेनापि सोमवासरे अयोध्यां गत्वा सर्वत: सज्जतां परिशीलितम्।

मुख्यमन्त्रिणा योगिआदित्यनाथेन सोमवासरे मन्दिरपरिसरे भवितुम् उपयुक्तस्य आयोजनस्य सज्जतां निरीक्ष्य मन्दिरप्रशासनस्य जनपदप्रशासनस्य च कृतानां व्यवस्थापनानां परीक्षणं कृतम्। जनपदाधिकृतान् आवश्यकनिर्देशाञ्च दत्तवान्। प्रधानमन्त्रि नरेन्द्रमोदी मङ्गलवारं प्रातः अयोध्यां प्राप्स्यन्ति। ते श्रीरामजन्मभूमिमन्दिरं गन्तुं पूर्वं प्रातः दशवादने सप्तमन्दिरं गमिष्यन्ति, महर्षिवशिष्ठम्, महर्षिविश्वामित्रम्, महर्ष्यगस्त्यम्, महर्षिवाल्मीकिम्, देवीम् अहिल्याम्, निषादराजं गुहं, मातरं शबरीं च प्रार्थयिष्यन्ति। ततः शेषावतारमन्दिरं गमिष्यन्ति, प्रातः एकादशवादने माता अन्नपूर्णामन्दिरं गत्वा ततः राममण्डपस्य गर्भगृहे दर्शनपूजनं करिष्यन्ति।

नियतक्रमानुसारं प्रधानमन्त्रि द्वादशवादने श्रीरामजन्मभूमिमन्दिरस्य शिखरे भगवाध्वजं उत्स्थापयति। एषः कार्यक्रमः मार्गशीर्षमासस्य शुक्लपक्षस्य शुभपञ्चम्यां, श्रीरामसीतोर्विवाहपञ्चम्याः अभिजित्मुहूर्ते भविष्यति। दशपदोच्चः विंशतिपाददीर्घश्च समकोणत्रिकोणाकृतिध्वजः आरोपितः भविष्यति। यस्यां भगवतः श्रीरामस्य प्रतिभां वीर्यं च द्योतयन् दीप्तिमान् सूर्यस्य प्रतीकः चित्रितः अस्ति। अस्मिन् कोविदारवृक्षस्य चित्रं तथा ‘ॐ’ इत्यपि लिखितम्। पवित्रः भगवाध्वजः रामराज्यस्य आदर्शान् प्रदर्शयन् गौरवं एकतां सांस्कृतिकपरम्परां च संदेशरूपेण प्रेषयिष्यति।

ध्वजः परम्परागतया उत्तरभारतीयनागरशिल्पशैल्याः निर्मितस्य शिखरस्य उपरि उद्वेष्टयिष्यते। मन्दिरस्य चतुर्दिक् निर्मितः ८०० मीटरपरिमितः परिखाभित्तिः (दक्षिणभारतीयशिल्पपरम्परानुसारं विन्यासितः) मन्दिरस्य शिल्पविविधतां दर्शयति। मन्दिरपरिसरे मुख्यमन्दिरस्य बाह्यभित्तिसु वाल्मीकीरामायणाधारिताः भगवतः श्रीरामस्य जीवनसम्बद्धाः ८७ सूक्ष्मशिल्पनिर्मितप्रसङ्गाः उत्कीर्णाः सन्ति। परिखाभित्तिषु भारतीयसंस्कृतिसंबद्धाः ७९ कांस्यपट्टप्रसङ्गाः प्रतिष्ठिताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता