सौराष्ट्रे विलंबेन रात्रौ स्वल्पो भूकंपः, तालालातः 15 किमीमितं दूरमासीत् केंद्रबिंदुः
गांधीनगरम्, 24 नवंबरमासः (हि.स.)।गुजरातस्य सौराष्ट्रप्रदेशे नवम्बर् २४ दिने प्रातःकाले लघुभूकम्पः अनुभवितः। भूकम्पस्य तीव्रता रिक्टरमाने ३.० इति मापिता। अयं कम्पनः प्रातः ३:०६ वादने अभिलिखितः। गान्धीनगरस्थिते भूकम्पवैज्ञानिक-अनुसन्धान-संस्थायाः (I
भूकम्प


गांधीनगरम्, 24 नवंबरमासः (हि.स.)।गुजरातस्य सौराष्ट्रप्रदेशे नवम्बर् २४ दिने प्रातःकाले लघुभूकम्पः अनुभवितः। भूकम्पस्य तीव्रता रिक्टरमाने ३.० इति मापिता। अयं कम्पनः प्रातः ३:०६ वादने अभिलिखितः।

गान्धीनगरस्थिते भूकम्पवैज्ञानिक-अनुसन्धान-संस्थायाः (Institute of Seismological Research) अनुसारं भूकम्पस्य केन्द्रबिन्दुः तालाला-नगरात् १५ किमी उत्तर-उत्तरपूर्वदिशि स्थितः, यस्य भौगोलिकस्थाननिर्देशाः २१.१८८° उत्तरी अक्षांशः, ७०.५४६° पूर्वदेशान्तरं च अभिलिखितम्।

वलसाड-जिलायां तापी-जिले व्यारा-तालुके करणजवेल-मीरपुर-प्रदेशयोः अपि लघुकम्पनानि अनुभूतानि। समीपस्थेषु ग्रामेषु वसन्तः जनाः कम्पकम्पां अनुभूय गृहात् निर्गत्य सुरक्षितस्थानानि अभिमुख्य गतवन्तः। किञ्चित्कालं जनानां मध्ये दहशतः वातावरणम् आसीत्।

शान्तिदायिका सूचना यद् अस्मिन् भूकम्पे किमपि नुकसानं न जनहानिः च न अभवत्। प्रशासने परिस्थितिं सततं पश्यति।

---------------

हिन्दुस्थान समाचार