ध्वजारोहणस्य क्षण भक्तिमयी संजाता अयोध्या, चतुर्दिक्षु गूंजितं जय श्रीराम! इति
- अयोध्यायाम् उत्पन्नः आस्थायाः सागरो, देशात्समग्रात् प्राप्नुवन् श्रद्धालवः अयोध्या, 25 नवंबरमासः (हि.स.)।श्रीराममन्दिरस्य शिखरे धर्मध्वजस्य फहरणस्य ऐतिहासिकक्षणेन सम्पूर्णा अयोध्या भक्तिभावेन आप्लुताऽभवत्। धर्मपथं सहित्य नगरस्य सर्वासु प
राम मंदिर ध्वजारोहण समारोह


अयोध्या राम मंदिर


ध्वजारोहण राम मंदिर


- अयोध्यायाम् उत्पन्नः आस्थायाः सागरो, देशात्समग्रात् प्राप्नुवन् श्रद्धालवः

अयोध्या, 25 नवंबरमासः (हि.स.)।श्रीराममन्दिरस्य शिखरे धर्मध्वजस्य फहरणस्य ऐतिहासिकक्षणेन सम्पूर्णा अयोध्या भक्तिभावेन आप्लुताऽभवत्।

धर्मपथं सहित्य नगरस्य सर्वासु प्रमुखासु मार्गासु जय-जयकारं कुर्वन्तः श्रद्धालवः समवेताः, रामनाम-निनादेन च सम्पूर्णं नगरं भक्तिरसेन सिक्तम्।

लता-मङ्गेशकर-चतुरस्त्रेषु सहस्रशो भक्ताः एकत्रिताः सन्तः ध्वजारोहणस्य प्रत्यक्षप्रसारणं ददृशुः।

यदा प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽऽलये मन्दिरशिखरे धर्मध्वजा रोपिता, तदा उपस्थितः जनसमूहः भावविभोरः भूत्वा जय श्रीराम इति घोषे निमग्नः।

श्रद्धालूनां मध्ये अपारानन्दः आसीत्।

अयोध्यायाः पार्श्वे स्थितेषु सुल्तानपुर-बस्ति-अम्बेडकरनगर-बाराबंकी प्रदेशेषु तथा उत्तरभारस्य अन्येषु स्थानेषु अपि बहुसंख्यकाः भक्ताः आगच्छन्।

श्रावस्तेः आगतः राजेन्द्रप्रसादपाण्डेय नामकः भक्तः अवदत्—

“सप्तदशे नवेम्बरमासेऽहं अयोध्यां प्राप्तः, अद्य चतुर्थं दिवसं मम हृदयम् अत्यन्तं गौरवेन पूरितम्।

मोदि-योगिद्वयेन अयोध्याया गौरवः पुनः प्राप्तः, नगरं च स्वच्छं सुन्दरं च कृतम्।”

तत्रैव विश्वनाथ-जायसवालः अवदत्—

“राममन्दिरनिर्माणकार्यं ऐतिहासिकम्। मोदि-योगिद्वयेन तद् कृतं, यत् पूर्वे केनापि न कदापि साधितम्।”

समारोहः सांस्कृतिक-भावनात्मक-उत्सव रूपेण परिवर्तितः।

गोपालगञ्जात् आगतः हनुमद्वेषभूषया सज्जितः रामभक्तः नृत्य-गायनाभ्यां सर्वं वातावरणं भक्ति-रससिञ्चितम् अकुरुत्।

दिल्लीतः आगताः श्रद्धालु-स्त्रियः—मधु, धारणा, संतोष, पूजा च— अवदन् यत् “राममन्दिरपरिसरं प्रविश्य देवलोकसदृशी अनुभूतिः जाताऽस्माकम्।”

सन्तः रमाकान्त-शर्मा, ये २५ वर्षाणी यावत् अयोध्यायाः नियमित-भक्तः, अवदन्—

“अयोध्या आधुनिकत्वं प्राप तथा त्रेतायुगस्य छायाम् अपि पुनराप्तवती।”

ढोल-मञ्जीरयोः मधुरस्वनैः सहिताः सन्तानां टोली अस्मिन् आयोजनं दिव्य-सांस्कृतिक-परम्परापर्व इत्येव परिवर्तितवती।

एतद् आयोजनं न केवलं धार्मिकम् अनुष्ठानम्,

किन्तु आस्था-इतिहास-आधुनिकता-समन्वयस्य जीवन्मूर्तिः,

येन अयोध्याया आध्यात्मिकप्रतिष्ठा विश्वसमक्षं पुनः प्रतिष्ठिता।

--------------

हिन्दुस्थान समाचार