अयोध्यावासिभिः जय श्रीराम, जय-जय हनुमान इति जयघोषैः सह पुष्पवर्षेण प्रधानमन्त्रिणः स्वागतं कृतम्
अयोध्या, 25 नवंबरमासः (हि.स.)। अयोध्यायां भगवतः श्रीरामस्य मन्दिरस्य मुख्यशिखरे मंगलवारस्य अभिजित्-मुहूर्ते केसरियवर्णा धर्मध्वजा प्रतिष्ठिता। प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽपि शिखरे भगवा-ध्वजः उपोद्धृतः। तस्मिन् काले मन्दिरपरिसरस्य वातावरणं भक्तिम
राम जन्मभूमि परिसर में प्रधानमंत्री


प्रधानमंत्री का स्वागत


अयोध्या, 25 नवंबरमासः (हि.स.)। अयोध्यायां भगवतः श्रीरामस्य मन्दिरस्य मुख्यशिखरे मंगलवारस्य अभिजित्-मुहूर्ते केसरियवर्णा धर्मध्वजा प्रतिष्ठिता। प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽपि शिखरे भगवा-ध्वजः उपोद्धृतः। तस्मिन् काले मन्दिरपरिसरस्य वातावरणं भक्तिमयं उत्साहपूर्णं चाभवत्। तस्मात् पूर्वं रामनगर्यां प्राप्तस्य प्रधानमन्त्रिणः मोदिनः प्रचण्डं स्वागतं कृतम्। “जयश्रीराम”, “जय-जय हनुमान” इति गगनभेदी-नादैः सह अयोध्यावासिभिः प्रधानमन्त्रिणः काफिल्युपरि पुष्पवृष्टिः कृता। प्रधानमन्त्रिणः समग्रमार्गे अभूतपूर्वं स्वागतं सम्पादितम्। स्वागतेनोद्वेलितः प्रधानमन्त्रिणोऽपि हस्तं विक्षिप्य अयोध्यावासिनः अभिवादितवन्तः। अयोध्यां प्राप्तेः समये मुख्यमन्त्रिणा योगिना आदित्यनाथेन, राज्यपालया आनन्दी बेन पटेलस्या च प्रधानमन्त्रिणः स्वागतं कृतम्।

अयोध्यावासिनाम् एकस्मिन् हस्ते भगवा-ध्वजः, अपरस्मिन् तु तिरङ्गा

प्रधानमन्त्री मोदी प्रभाते अयोध्यां प्राप्ताः। साकेत-महाविद्यालये हेलिकॉप्टरस्य अवतरणं जातम्। तस्मात् काफिलेन सह टेढी-बाजारं गत्वा श्रीराममन्दिर-परिसरं प्रति प्रवेशः क्रियते स्म। तस्मिन् समये अयोध्यावासिभिः “जयश्रीराम”, “जय जय हनुमान” इति गगनभेदी-घोषैः सह प्रधानमन्त्रिणः स्वागतं कृतम्। अयोध्यावासिनः एकहस्ते भगवाध्वजम्, अन्यस्मिन् तिरङ्गं धृत्वा प्रधानमन्त्रिणम् अभिनन्दन्तः अवस्थिताः।

सप्तमन्दिरेषु प्रणतिः, पूजा-अर्चनञ्च

प्रधानमन्त्री मोदी सप्तमन्दिरेषु पूजा-अर्चनां कृतवन्तः। मन्दिरपरिसरे महर्षिवशिष्ठ, महर्षिविश्वामित्र, महर्षिअगस्त्य, महर्षिवाल्मीकि, देव्या अहिल्या, निषादराजेन गुह्येन, माता शबरी च—एतेषां मन्दिरेषु गत्वा प्रधानमन्त्रिणा शिरः नमितम्। प्रधानमन्त्रिणा शेषावतार-मन्दिरे माताऽन्नपूर्णा-मन्दिरे च दर्शनपूजनं कृतम्।

अनन्तरं श्रीराममन्दिर-परिसरे रामदरबारं प्राप्त्य प्रधानमन्त्रिणा मोदी, राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकेन डॉ. मोहनभागवता, मुख्यमन्त्रिणा योगिना आदित्यनाथेन च सह दर्शनपूजन-आरत्या च कृताः। अत्र पुजारिभिः त्रिषु विशिष्टजनेषु रामनामी-गम्छा आरोपिताः, प्रसादोऽपि प्रदत्तः।

-----------------

हिन्दुस्थान समाचार / अंशु गुप्ता