गुरोः तेजबहादुरस्य शहीदी-दिवसस्य निमित्तम् अद्य दिल्ली-सर्वकारस्य कार्यालयेषु अवकाशः भविष्यति, विद्यालयाः महाविद्यालयाश्च अपि पिहिताः भविष्यन्ति
नवदेहली, 25 नवंबरमासः (हि.स.)। भारतीयजनतापक्षेण (भाजपा) शासितायां दिल्ली-नगर्यां अद्य सर्वेषु सर्वकार-कार्यालयेषु अवकाशः भविष्यति। विद्यालयाश्च महाविद्यालयाश्च अपि निरुद्धाः भविष्यन्ति। दिल्ली-सर्वकारेण सिख-समुदायस्य गुरोः तेजबहादुरस्य ३५०तम-शहीदी-
गुरु तेग बहादुर जी। पेंटिंग - इंटरनेट मीडिया


नवदेहली, 25 नवंबरमासः (हि.स.)। भारतीयजनतापक्षेण (भाजपा) शासितायां दिल्ली-नगर्यां अद्य सर्वेषु सर्वकार-कार्यालयेषु अवकाशः भविष्यति। विद्यालयाश्च महाविद्यालयाश्च अपि निरुद्धाः भविष्यन्ति। दिल्ली-सर्वकारेण सिख-समुदायस्य गुरोः तेजबहादुरस्य ३५०तम-शहीदी-दिवसस्य अवसरस्य निमित्तम् सार्वजनिक-अवकाशस्य घोषणा कृताभवत्।

देहल्याः मुख्यमन्त्रिणा रेखा-गुप्ता इत्यनया एषा घोषणा २३ नवम्बर-मासे कृताभूत्। सा अवदत् यत् गुरोः तेजबहादुर-साहिबस्य जीवनं शहादत् च अत्याचारस्य अन्यायस्य च विरुद्धं नित्यं प्रवहमानस्य प्रतिकार-चिह्नम् अस्ति। गुरु-साहिबः केवलं सिख-पन्थस्य नवमः गुरुर्न, अपि तु मानवता-रक्षकः अपि अभूत्।

गुरोः तेजबहादुरस्य शहीदी-दिवसस्य उपलक्ष्ये पञ्जाब-प्रदेशे, हिमाचल-प्रदेशे, हरियाणा-प्रदेशे च विद्यालयाः निरुद्धाः भवन्ति। पञ्जाबे हरियाणायां च २४ नवम्बर-दिने शहीदी-दिवसः समुज्ज्वलतया आचरितः। उभावपि प्रदेशौ अस्मिन् अवसरे विद्यालयान् पिहितान् अकुर्वन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता