Enter your Email Address to subscribe to our newsletters

नवदेहली, 25 नवंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु महोदया मङ्गलवासरे राष्ट्रपतिभवने आयोजिते एकस्मिन् समारोहि लेबनान–मॉरीशस्–सेनेगल–सऊदी–अरेबिया–घाना–देशानां राजनयिकानां परिचय–पत्राणि स्वीकृतवती।
ये राजनयिका: राष्ट्रपतये स्वीयानि परिचयपत्राणि प्रस्तुतवन्तः, तेषु लेबनान–देशस्य राजदूतः हादी जाबेर, मॉरीशस्–देशस्य उच्चायुक्ता शैलाबाई बप्पू, सेनेगल–देशस्य राजदूतः अब्दुलाये बैरो, सऊदी–अरेबिया–देशस्य राजदूतः हैथम हसन–अल–मल्की, घानादेशस्य राजदूतः प्रोफेसरक्वासी ओबिरी–डैनसो इति सम्मिलिताः। समारोहे राष्ट्रपतिः नवनियुक्तान् राजनयिकान् स्वागतवती तथा भारतराष्ट्रस्य सह तेषां देशानां द्विपक्षीय–सम्बन्धान् अधिकं प्रगाढान् कर्तुं स्वीयाम् आशां व्यक्तवती।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता