गृहमन्त्रिणा अमितशाहेन ‘हिन्द की चादर’ गुरु तेगबहादुरजी इत्यस्य ३५०तमशहीददिवसे श्रद्धाञ्जलिः अर्पिता
नवदेहली, २५ नवम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहेन सिखधर्मस्य नवमगुरोः, ‘हिन्द की चादर’ इति ख्यातस्य श्रीगुरुतेगबहादुरस्य ३५०तमशहीदिवसे श्रद्धाञ्जलिः समर्पिता। ते अवदन् यत् गुरुतेगबहादुरजीवनं गम्भीरया आध्यात्मिकसाधन
अमित शाह


नवदेहली, २५ नवम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहेन सिखधर्मस्य नवमगुरोः, ‘हिन्द की चादर’ इति ख्यातस्य श्रीगुरुतेगबहादुरस्य ३५०तमशहीदिवसे श्रद्धाञ्जलिः समर्पिता। ते अवदन् यत् गुरुतेगबहादुरजीवनं गम्भीरया आध्यात्मिकसाधनया, पवित्रोपदेशैः तथा संस्कृति-आस्थयोः रक्षणार्थं कृतस्य अदम्यस्य संघर्षस्य प्रतीकम्।

अमितशाहः सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् लिखितवान्—

“सिखधर्मस्य नवमगुरोः, ‘हिन्दकीचादर’ श्रीगुरुतेगबहादुरस्य ३५०तमशहीदिवसे अहं तान् नमनं करोमि, श्रद्धाञ्जलिं च अर्पयामि। गुरुतेगबहादुर महता आध्यात्मिकसाधनया जीवनं यापितवन्तः, पवित्रप्रवचनैः समाजस्य मार्गदर्शनं कृतवन्तः, एवं बर्बराणां आक्रमणकारिणां विरुद्धं स्थित्वा अस्माकं संस्कृति-आस्थायाः च रक्षितवन्तः।”

गृहमन्त्रिणा उक्तम् यत्

“गुरुसाहिबः काश्मीरीपण्डितानां निमित्तं प्रबलं संघर्षं कृतवान्, अत्याचारीमुगलान् चुनौती दत्तवान्, धर्मरक्षणार्थं स्वस्य सर्वस्वं समर्पितवान्। गुरुसाहिबस्य एषा त्यागगाथा—यस्यां वीरता, संयमः, निःस्वार्थभावः, भक्तिश्च संनिहिताः—अद्यापि हृदयम् गौरवेण तथा राष्ट्ररक्षणस्य नवीनसंकल्पेन पूरयति।”

हिन्दुस्थान समाचार / अंशु गुप्ता