Enter your Email Address to subscribe to our newsletters

जयपुरम्, 25 नवंबरमासः (हि.स.)। राजस्थान-लोकसेवायोगेन कनिष्ठ-रसायनज्ञ (जनस्वास्थ्य-अभियांत्रिकी-विभागः) नियुक्तिः–२०२५ अन्तर्गतम् शुद्धिपत्रं प्रकाशितम्। आयोगस्य सचिवेन उक्तम्—कनिष्ठ-रसायनज्ञस्य त्रयोदशपदानि सम्बध्य भर्ती-प्रक्रियायै विज्ञापनं द्वितीये अप्रैल्मासे प्रकाशितम् आसीत्। विभागेन कनिष्ठ-रसायनज्ञपदसंख्यायां वृ्द्धिः कृतायाम् अधुना समग्रपदसंख्या षोडशत्वं प्राप्तवती। एतेषां संशोधित-वर्गवार-वर्गीकरणस्य विषये शुद्धिपत्रं प्रकाश्यते स्म। अभ्यर्थिनः एतस्य अवलोकनं आयोगस्य जालपुटे कर्तुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता