धर्मगुरोः दलाई-लामा इत्यस्य दीर्घायुषः कृते बुधवासरे प्रार्थनासभा भविष्यति
धर्मशाला, 25 नवंबरमासः (हि.स.)। तिब्बती-धर्मगुरोः दलाई लामस्य दीर्घायुषः कृते बुधवासरे मैक्लोड्गञ्जस्थिते मुख्य-बौद्धमठे चुगलाखङ्गे प्रार्थना-सभायाः आयोजनं भविष्यति। एषा प्रार्थना-सभा मङ्गोलिय-समुदायस्य बौद्ध-अनुयायिभिः धर्मगुरोः कृते आयोजिताः भविष
धर्मगुरु दलाई लामा।


धर्मशाला, 25 नवंबरमासः (हि.स.)। तिब्बती-धर्मगुरोः दलाई लामस्य दीर्घायुषः कृते बुधवासरे मैक्लोड्गञ्जस्थिते मुख्य-बौद्धमठे चुगलाखङ्गे प्रार्थना-सभायाः आयोजनं भविष्यति। एषा प्रार्थना-सभा मङ्गोलिय-समुदायस्य बौद्ध-अनुयायिभिः धर्मगुरोः कृते आयोजिताः भविष्यति। बुधवासरस्य प्रातः ८.३० वादनतः दशवादनपर्यन्तं मुख्य-बौद्धमठे प्रार्थना-सभायाः आयोजनं भविष्यति, यत्र दलाई-लामा स्वयमेव उपस्थिताः भविष्यन्ति। अस्मिन् अवसरे दलाई-लामा मङ्गोलियदेशीयान् बौद्ध-भिक्षून् प्रति स्वकीयम् आशीर्वादं प्रवचनं च दास्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता