राजस्वसंग्रहणं राष्ट्रनिर्माणस्य आधारशिला, राजस्वाधिकारिणां महत्वपूर्णाः भूमिका: - राष्ट्रपतिः
नवदेहली, नवम्बरमासः २५ (हि.स.)। भारतीयराजस्वसेवायाः (कस्टम्स् तथा अप्रत्यक्षराजस्व) 76तमस्य दलस्य अधिकारीप्रशिक्षार्थिनः सोमवासरे राष्ट्रपतिगृहं गत्वा राष्ट्रपतिं द्रौपदीमुर्मुं मिलितवन्तः। अस्मिन् अवसरे राष्ट्रपतिः उक्तवती यत् राजस्वसंग्रहणं राष्ट
भारतीय राजस्व सेवा (कस्टम्स एवं अप्रत्यक्ष कर) के 76वें बैच के अधिकारी प्रशिक्षुओं ने मंगलवार को राष्ट्रपति द्रौपदी मुर्मु से राष्ट्रपति भवन में भेंट की।


नवदेहली, नवम्बरमासः २५ (हि.स.)। भारतीयराजस्वसेवायाः (कस्टम्स् तथा अप्रत्यक्षराजस्व) 76तमस्य दलस्य अधिकारीप्रशिक्षार्थिनः सोमवासरे राष्ट्रपतिगृहं गत्वा राष्ट्रपतिं द्रौपदीमुर्मुं मिलितवन्तः। अस्मिन् अवसरे राष्ट्रपतिः उक्तवती यत् राजस्वसंग्रहणं राष्ट्रनिर्माणस्य आधारशिला अस्ति, राजस्वसेवाऽधिकारी च राष्ट्रस्य आर्थिकसीमानां सचेताः प्रहरीणः भवन्ति।

राष्ट्रपतिः अधिकारिणां सम्बोध्यन् अवदत् यत् राजस्वैः प्राप्तेन राजस्वेन देशे आधारभूतसंरचना, शिक्षा, आरोग्यं, सामाजिककल्याणं च इत्यादयः महत्वपूर्णाः योजनाः सञ्चाल्यन्ते। अतः अधिकारी केवलं प्रशासनिकभूमिकां न वहन्ति, अपि तु राष्ट्रनिर्माणप्रक्रियायां सक्रियाः सहभागी भवितुम् अपि युक्ताः। सा अवदत् यत् राजस्वसंग्रहणप्रक्रिया राजस्वदातॄणां प्रति सहजाऽनायासश्च भवितुमर्हति।

सा अवदत् यत् राजस्वसेवाधिकारिणां प्रशासकाः, अन्वेषकाः, व्यापारसुगमीकरणकर्तारः, नियमपालनकर्तारश्च इति बह्वाः भूमिकाः वहन्ति। ते तस्कर्याः, आर्थिकप्रपञ्चनायाः, अवैधव्यापारस्य च प्रतिरोधं कुर्वन्तः देशस्य रक्षां कुर्वन्ति, तथा वैधव्यापारं वैश्विकार्थिकसहकारं च प्रोत्साहयन्ति। राष्ट्रपतिः उवाच यत् तेषां भूमिकायां नियमपालनस्य व्यापारसुगमतायाश्च मध्ये संतुलनं रक्षितव्यम् अतीव आवश्यकम् अस्ति।

राष्ट्रपतिः अधिकारिणां पारदर्शकं, उत्तरदायी, प्रौद्योगिकी-आधारितं च कार्यपद्धतिं विकसितुं उपदिष्टवती। सा अवदत् सत्यनिष्ठा तथा निष्पक्षता एव भवतः व्यावसायिक-आचरणस्य आधारशिलाः। युवाधिकारिणः प्रति सा अपेक्षां व्यक्तवती यत् ते नवोन्मेषं, विश्लेषणात्मकचिन्तनं, तांत्रिकदक्षतां च अवलम्बेरन्।

हिन्दुस्थान समाचार / अंशु गुप्ता