(अद्यतनम्) अयोध्यायां राममन्दिरस्य शिखरे प्रधानमन्त्रिणा मोदीना ध्वजारोहणम् कृतम्, सरसंघचालकः अपि उपस्थितः
अयोध्यानगरम्, २५ नवम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना मंगलवासरे भगवतः श्रीरामस्य जन्मभूमौ निर्मितस्य राममन्दिरस्य शिखरे कूटकं निपीड्य धर्मध्वजारोहणं कृतम्। ध्वजारोहणसमये निरन्तरं मन्त्रौच्चारणं प्रवर्तितम्। यदा ध्वजः शिखरं प्राप्तः, त
राम मंदिर के परिसर में प्रधानमंत्री


अयोध्यानगरम्, २५ नवम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना मंगलवासरे भगवतः श्रीरामस्य जन्मभूमौ निर्मितस्य राममन्दिरस्य शिखरे कूटकं निपीड्य धर्मध्वजारोहणं कृतम्। ध्वजारोहणसमये निरन्तरं मन्त्रौच्चारणं प्रवर्तितम्। यदा ध्वजः शिखरं प्राप्तः, तदा प्रधानमन्त्रिणा ध्वजः प्रणमितः। ततः परं प्रधानमन्त्रिणा नरेन्द्रमोदिना सरसंघचालकेन डॉ. मोहनभागवता च ध्वजस्य पुष्पार्चनं कृतम्। तस्याः पूर्वं प्रधानमन्त्रिणा रामललायाः दर्शनं पूजनं च कृतम्। भगवतः श्रीरामस्य जन्मभूमौ निर्मितस्य राममन्दिरस्य शिखरे धर्मध्वजारोहणसमये प्रधानमन्त्रिणा सह डॉ. मोहनभागवतः, श्रीरामजन्मभूमिन्यास अध्यक्षः महन्तः नृत्यगोपालदासः, राज्यपालः आनन्दीबेनपटेल्, मुख्यमन्त्री योगी आदित्यनाथः, न्यासस्य कोषाध्यक्षः गोविन्ददेवगिरिः, महामन्त्री च चम्पत् रायः प्रमुखतया उपस्थिताः।

ध्वजारोहणात् पूर्वं प्रधानमन्त्रिणा मोदिना डॉ. भागवतस्य सह रामललायाः पूजाऽर्चना कृतम्। राममन्दिरे पूजाऽर्चनां स्वामी विश्वप्रपन्नतीर्थमहाभागः समापादयत्। तस्याः पूर्वं प्रधानमन्त्रिणा प्रथमतले स्थिते रामदरबारेऽपि दर्शनं कृतम्।राममन्दिरस्य शिखरे स्थापितस्य ध्वजस्य ऊर्ध्वता दशपादपरिमिता, दीर्घता अपि तावत्। ध्वजस्य उपरि दीप्तमानसूर्यस्य आकृतिः, कोविदारवृक्षस्य चित्रं च दृश्यते, तस्योपरि “ॐ” इति लिखितम्। एषा धर्मध्वजा पारम्परिकया उत्तरभारतीयनागरशैल्यां निर्मिता।

अस्मिन् अवसरे मुख्यमन्त्रिणा योगी आदित्यनाथेन प्रधानमन्त्रिणे नरेन्द्रमोदये राममन्दिरस्य प्रतिमा प्रदत्ता, स्वागतम् अपि कृतम्। संपूर्णदेशात् आगताः आमन्त्रिताः अतिथयः पूज्यसन्ताश्च मन्दिरपरिसरे विराजमानाः।

हिन्दुस्थान समाचार / अंशु गुप्ता