Enter your Email Address to subscribe to our newsletters

मुंबईनगरम्, २५ नवम्बरमासः (हि.स.)। विरारपूर्वस्य शिरग्रामक्षेत्रे विवा-आर्किटेक्चरमहाविद्यालयस्य समीपे नवनिर्मिते श्रीद्वारकाधीशमन्दिरे प्राणप्रतिष्ठामहोत्सवस्य आरम्भः २६ नवम्बरदिनाङ्कात् भविष्यति। एतत् मन्दिरं वसईविरारमण्डलस्य प्रथमाया: महिलानगराध्यक्षाया: प्रवीणा ठाकुरमहाभागायाः संकल्पेन निर्मितम् अस्ति। महोत्सवे जगद्गुरुः शंकराचार्यः स्वामी अविमुक्तेश्वरानन्दः सरस्वती ‘१००८’ इत्यादयः गण्यमानजनः उपस्थिताः भविष्यन्ति। २६ नवम्बरमासस्य १२:३४ काले मूर्तेः स्थापना तथा प्राणप्रतिष्ठा भविष्यति। सायं चतुर्वादने जगद्गुरुणा करकमलैः मन्दिरस्य द्वारोद्घाटनं क्रियते।
२७ नवम्बरदिनाङ्के प्रभाते प्रवचनं, धर्माध्यात्मजीवनमूल्यानां विषये मार्गदर्शनं च भविष्यति। सायं केरलस्य पारम्परिकः थिरुवातिरानृत्यः तथा राधाकृष्णनृत्यस्य प्रस्तुति भविष्यति। २८ नवम्बरमासस्य दिवसे थिरुमुरुगण तथा बालाजीमन्दिरस्य भजनसमूहेन भजनकार्यक्रमः, अनन्तरं प्रसिद्धभजनगायकस्य अनुपजटोलायाः भजनसन्ध्या च भविष्यति। २९ नवम्बरस्य मध्याह्ने छप्पनभोजः, दशावतारप्रदर्शनं, अनमोलमित्रमण्डलस्य पारम्परिकः ढोलताशाकार्यक्रमः च भविष्यति। ३० नवम्बरदिनाङ्के भण्डारः प्रसादवितरणं च भविष्यति। सायं सप्तवादने देवराजगढ़व्याः पारम्परिकः गुजरातीडायरोकार्यक्रमः भविष्यति।
अस्मिन् विषये प्रवीणाठाकुरः अवदत् यत् श्रीद्वारकाधीशमन्दिरं केवलं संरचना नास्ति, किन्तु वसई-विरारप्रदेशस्य आस्थासंस्कृति-आध्यात्मिकचेतनानां केन्द्रं भविष्यति। सर्वेभ्यः भक्तेभ्यः आवाहनं यत् अस्मिन् दिव्ये उत्सवे अधिकसङ्ख्यया आगत्य भगवतः श्रीकृष्णस्य आशीर्वादं ग्रहीत।
पूर्वविधायकः हितेन्द्रठाकुरः अवदत् यत् एतत् मन्दिरं विरारप्रदेशस्य सांस्कृतिकधार्मिकपरम्परां समृद्धिं दास्यति। जगद्गुरोः शंकराचार्यस्य आगमनात् समग्रं क्षेत्रं धन्यं भविष्यति। एषः कार्यक्रमः समाजाय एकतासमर्पणसेवायाः संदेशं ददाति।
हिन्दुस्थान समाचार / अंशु गुप्ता