Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 नवंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी जी मंगलवासरे श्रीगुरुतेगबहादुरस्य ३५०तम-हुतात्मदिने तं प्रणम्य श्रद्धाञ्जलिं दत्तवन्तः। प्रधानमन्त्रिणा उक्तं यत् गुरुतेगबहादुरस्य अतुलनीयः साहसः, परमं बलिदानं च सदा समाजस्य मार्गं आलोकयिष्यतः।
मोदीमहोदयैः ‘एक्स्’ इति सामाजिकमाध्यमे लिखितं यत्
“श्रीगुरुतेगबहादुरस्य ३५०तम-शहीदिदिने वयं तस्य अतुलनीयं साहसम् अहर्निशं स्मरामः, तस्य बलिदानं च प्रणमामः। आस्था-मानवता-रक्षणार्थं कृतं तस्य त्यागम् अस्माकं समाजं नित्यं प्रेरयिष्यति।”
---------------
हिन्दुस्थान समाचार