यदि राजसत्तायाः प्रमुखा धर्मध्वजा स्थाप्यते चेत् राष्ट्रियसंस्कृतेः प्रचारः प्रभावो विश्वव्यापी : शंकराचार्यो वासुदेवानन्दः
प्रयागराज, 25 नवम्बर (हि.स.)।जगद्गुरुः शङ्कराचार्यः स्वामीवासुदेवानन्दसरस्वतीमहामहिमाः मंगलवारे दिवसे श्रीरामजन्मभूम्ययोध्यायां प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽनुष्ठिते ध्वजस्थापनकार्यक्रमे सहभागीभूत्वा प्रयागराजं आगच्छन्। ते अवदन् यत् देशस्य प्रधा
शंकराचार्य वासुदेवानंद सरस्वती


प्रयागराज, 25 नवम्बर (हि.स.)।जगद्गुरुः शङ्कराचार्यः स्वामीवासुदेवानन्दसरस्वतीमहामहिमाः मंगलवारे दिवसे श्रीरामजन्मभूम्ययोध्यायां प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽनुष्ठिते ध्वजस्थापनकार्यक्रमे सहभागीभूत्वा प्रयागराजं आगच्छन्।

ते अवदन् यत् देशस्य प्रधानमन्त्रिणा भगवान् श्रीरामस्य जन्मभूमौ निर्मिते भव्ये दिव्ये च मन्दिरे विराटं पावनं ध्वजं संस्थापयितुं कृतं कर्म राष्ट्रस्य, सम्पूर्णस्य सनातनधर्मस्य च, महतः गौरवस्य विषयः। यदि राजसत्तानायकः धर्मध्वजं प्रतिष्ठापयति, तर्हि राष्ट्रस्य सनातनधर्मः संस्कृति च विश्वविताने दीप्यमानौ, प्रसारितौ, प्रभाववन्तौ च भवतः।

वासुदेवानन्दसरस्वत्याख्येन अवोचि यत् शङ्कराचार्यस्य सान्निध्ये २६ नवम्बर-बुधवारादारभ्य श्रीब्रह्मनिवासे, श्रीशङ्कराचार्याश्रमे, अलोपीबागे ‘आराधनामहोत्सव’ इत्यस्य निमित्तं श्रीमद्भागवतमहापुराणकथानुशीलनकार्यक्रमः ४ दिसम्बरपर्यन्तं प्रवर्तिष्यते। कार्यक्रमानुसारं श्रीमद्भागवतरसराजः रसिकः अनन्तस्वामीअखण्डानन्दसरस्वत्याः कृपापात्रः शिष्यः श्रवणानन्दसरस्वती कथा-वाचनं करिष्यति।

प्रवक्ता ओङ्कारनाथत्रिपाठी अवदत् यत् बुधवासरे प्रातःकाले वेदीरचना, गौरीगणेशपूजनं, प्रतिदिनं प्रातः सप्तवादनात् द्वादशवादनपर्यन्तं मूलपाठः, रामरसरसिकः जयपुरनिवासी श्रीप्यारेमोहन इत्यनेन प्रतिदिनं प्रातः सप्तवादनात् मध्याह्नद्वादशवादनपर्यन्तं मानसगायनम्, तथा प्रति दिवसं द्विप्रहरद्वितीयवादनात् सायं षड्वादनपर्यन्तं श्रवणानन्दमहाराजेन श्रीमद्भागवतकथायाः वाचनं भविष्यति।

---------------

हिन्दुस्थान समाचार