फलानां शाकानां च उत्पादनेन सहितेषु लगभग सर्वोद्यानीकरणसस्येषु वृद्धिः- शिवराजसिंहः
नव दिल्ली, 25 नवंबरमासः (हि.स.)।केन्द्रीयकृषिमन्त्री, कृषक-कल्याण-ग्रामीणविकास-मन्त्री च शिवराजसिंह-चौहानः मङ्गलवासरे २०२४–२५ वर्षस्य बागवानी-फसलानां क्षेत्रफल-उत्पादनयोः तृतीयम् अग्रिम-अनुमानं प्रकाशितवान्। अस्मिन् अनुमाने बागवानी-क्षेत्रफले ४-लक
केन्द्रीय कृषि मंत्री शिवराज सिंह चौहान


नव दिल्ली, 25 नवंबरमासः (हि.स.)।केन्द्रीयकृषिमन्त्री, कृषक-कल्याण-ग्रामीणविकास-मन्त्री च शिवराजसिंह-चौहानः मङ्गलवासरे २०२४–२५ वर्षस्य बागवानी-फसलानां क्षेत्रफल-उत्पादनयोः तृतीयम् अग्रिम-अनुमानं प्रकाशितवान्।

अस्मिन् अनुमाने बागवानी-क्षेत्रफले ४-लक्ष-हेक्टेयर-वृद्धिः प्रतीयते, यत् गतवर्षस्य २९०.८६-लक्ष-हेक्टेयरतः वर्धित्वा २९४.८८-लक्ष-हेक्टेयर-पर्यन्तं प्राप्तम्।

उत्पादने १४३.११-लक्ष-टन-वृद्धिः अनुमीयते—यत् ३५४७.४४-लक्ष-टनतः ३६९०.५५-लक्ष-टनपर्यन्तं सम्भाव्यते।

केंद्रीयमन्त्रिणा शिवराजसिंहेन उक्तम् एषा वृद्धि: कृषकाणां कठिनपरिश्रमस्य, कृषिवैज्ञानिकानां प्रयासानां, प्रधानमन्त्रिणः मार्गदर्शनस्य, तथा केन्द्रसरकारया निर्मितानां लाभकारीयोजनानां किसानहितैषीनीतिनां च फलम्। उत्तमबीजानां, नवतमी-तन्त्रज्ञानस्य उपयोगः, बाजारस्य सुलभो मार्गः—एतानामपि अस्य वृद्धि-साधने विशेषं योगदानम् अस्ति।

तेन उच्यते—फल-सब्जी-उत्पादने विशेषः विकासः दृष्यमानः।

फलोत्पादनं ५.१२% (५७.८२-लक्ष-टन) वर्धित्वा ११८७.६०-लक्ष-टने प्राप्तुम् अपेक्षितम्। एतेषु केला, आम्रः, तरबूजः, कटहलः, मंदारिन-नारङ्गम्, पपीता, अमरूदः च मुख्यं योगदानं कुर्वन्ति।

सब्जीनां उत्पादनम् ४.०९% (८४.७६-लक्ष-टन) वर्धित्वा २१५६.८४-लक्ष-टनम् अपेक्षितम्। विशेषतः प्याज़-उत्पादनं गतवर्षस्य २४२.६७-लक्ष-टनेभ्यः वर्धित्वा ३०७.८९-लक्ष-टन यावत् सम्भाव्यम्—अर्थात् २६.८८% वृद्धि।

आलू-उत्पादनं १.८५% वर्धित्वा ५८१.०८-लक्ष-टन प्राप्तुं शक्यते।

तृतीय-अग्रिम-अनुमाने सूच्यते—सुगन्धित-औषधीय-पादपानां उत्पादनम् ७.८१-लक्ष-टने वर्धिष्यति (गतवर्षे ७.२६-लक्ष-टन आसीत्)। मसालानां उत्पादनम् १२५.०३-लक्ष-टन अनुमान्यते—अत्र लहसुनस्य, आद्रकस्य, हरिद्रायाः उत्पादनं वर्धितम्। गतवर्षे मसालानां उत्पादनम् १२४.८४-लक्ष-टन आसीत्।

टमाटर-उत्पादनं १९४.६८-लक्ष-टन भविष्यति इति अनुमानः।

केंद्रीयकृषिमन्त्रिणा शिवराजसिंहेन उक्तं सर्वकारः कृषकाणां कृते नवतमी-तन्त्रज्ञानानि समादधाति, येन कृषि-उत्पादकता आयश्च उन्नीयते। नवीन-प्रविधीनां प्रसारणेन, उत्तमबीज-उत्पादनस्य वृद्ध्या, बाजार-प्रबन्धनस्य सुधारैः च भारतं कृषिक्षेत्रे विश्वनेता भवितुम् अग्रगच्छति।

प्रधानमन्त्रिणो नरेन्द्रमोदिनः नेतृत्वे आत्मनिर्भर-भारतस्य लक्ष्यं केन्द्रे स्थापयित्वा कृषि-क्षेत्रे निरन्तर-सुधारः समृद्धिश्च प्रवर्ध्यते, येन प्रत्येकस्य कृषकस्य जीवनम् अधिकं श्रेष्ठं स्यात्।

---------------

हिन्दुस्थान समाचार