Enter your Email Address to subscribe to our newsletters

चेन्नईनगरम्, 25 नवंबरमासः (हि.स.)। तमिलनाडुराज्ये सम्पन्ने विश्वप्रसिद्धे लोकप्रिये च कार्तिकदीपोत्सवे कालस्यावसरे तिरुवन्नामलै-नगरं प्रति आगच्छन्तः प्रतिगच्छन्तश्च दीर्घदूरयात्रिकाणां सुविध्यर्थं राज्यसर्वकारेण विशेष-यान-सेवानां घोषणाः कृताः। नागरकोइल्, तिरुनलवेल्ली, तूतुक्कुडी, सेंगोत्तै, मदुरै, कोयम्बटूर-प्रदेशेभ्यः अतीव-अधुनातनानि वातानुकूलितानि वैभवयुक्तानि शयनयानानि च सञ्चालितानि भविष्यन्ति।राज्य-एक्स्प्रेस्-परिवहन-निगमस्य प्रबन्ध-निर्देशकः मोहन-नामधेयः मंगलवासरे प्रकाशित-प्रेस्-विज्ञप्तौ उक्तवान् यत् दीपोत्सवसमये विशालं भक्तजनसमूहं दृष्ट्वा अतिरिक्ता-यानव्यवस्था कृता अस्ति।
निर्देशकः उक्तवान् यत् ३–४ डिसम्बर्-दिनेभ्यः चेन्नै-नगरात् तिरुवन्नामलैकं प्रति समग्रं १६० वैभवयुक्त-ए.सी.-यानानां संचालनं भविष्यति। एवं च राज्य-एक्स्प्रेस्-परिवहन-निगमस्य (SETC) पक्षतः २–३ डिसम्बर्-दिनेभ्यः नागरकोइल्, तिरुनलवेल्ली, तूतुक्कुडी, सेंगोत्तै, मदुरै, कोयम्बटूर-प्रदेशेभ्यः वैभवयुक्तानि स्लीपर्-ए.सी.-यानानि च सञ्चालयिष्यन्ति। समग्ररूपेण २००-अधिक-एक्स्प्रेस्-यानानां संचालनं सुनिश्चितं कृतम्, यत् दीपोत्सव-समये यात्रिभ्यः कस्यचित् असुविधायाः सम्भवो न भवेत्। तस्मात् विशेष-यानानां टिकट्-आरक्षणं www.tnstc.in इति जालस्थले तथा तमिळनाडुराज्य-परिवहन-निगमस्य (TNSTC) मोबाइल्-अप्लिकेशन्-माध्यमेन कर्तुं शक्यते इति सः अवदत्।
यान-संचालन-संबद्ध-विस्तर-तथ्यानि ज्ञातुं यात्रिणः अधोलिखित-दूरवाणीसङ्ख्याभ्यः सम्पर्कं कर्तुं शक्नुवन्ति—
मदुरै: 9445014426तिरुनलवेल्ली: 9445014428नागरकोइल्: 9445014432तूतुक्कुडी: 9445014430कोयम्बटूरम्: 9445014435चेन्नै-मुख्यकार्यालयम्: 9445014463, 9445014424
तमिळनाडुराज्ये सोमवासरे पारम्परिक-उत्साहेन धार्मिक-आस्थया च सहितं कार्तिकदीपोत्सवस्य शुभारम्भः अभवत्। कार्तिकदीपोत्सवः कार्तिगै-दीपम् इत्यपि कथ्यते। अस्मिन् अवसरि राज्यस्य गृहेषु देवालयेषु च मृण्मय-दीपानां ज्योतिर्भिः भक्ताः भगवान् मुरुगनस्य (कार्तिकेयस्य) उपासां कुर्वन्ति।
उत्सवकाले जनाः स्वगृहेषु आकर्षकं कोलम् आरेफन्ति, द्वारप्रदेशं च आम्रपत्रमालाभिः अलङ्कुर्वन्ति। अशीः-विश्वासः अस्ति यत् दीपप्रज्वलनात् नकारात्मक-ऊर्जा पापशक्तयः च निवर्तन्ते, गृहे सुखसमृद्धिश्च आगच्छति। उत्सवस्य प्रमुख-आकर्षणं तिरुवन्नामलै-महादीपम् भवति, यत्र पवित्रे अरुणाचल-शैले विशालोऽग्निः प्रज्वलितः भवति। अस्य अग्नेः दर्शनं दूरदूरात् अपि दृश्यते, शुभं च मन्यते। सहस्रशः भक्ताः देवालये दर्शनार्थं आगच्छन्ति विशेषपूजां च कुर्वन्ति।--------------
हिन्दुस्थान समाचार / अंशु गुप्ता