Enter your Email Address to subscribe to our newsletters

नवदेहली, २५ नवम्बरमासः (हि.स.)वैज्ञानिकऔद्योगिकानुसन्धानपरिषद् (सीएसआईआर) तथा भारतीयायुर्विज्ञानानुसन्धानपरिषद् (आईसीएमआर) इत्येताभ्यां संयुक्तसभायां नूतन-औषधीनां परीक्षणचरणस्य प्रवर्धनम्, अपशिष्टजलनिगरणस्य क्षेत्रविस्तारः, ‘वन-हेल्थ्’ अभियानस्य सुदृढीकरणम्, शोधार्थिनां अवसरवृद्धिः, संयुक्ततन्त्रज्ञानविकासप्रक्रियायाः सुव्यवस्थापनम्, चिकित्सायाः आपत्कालिकमानवरहितोडानसेवाया आरम्भः एतेषां विषये बहवः निर्णयाः कृताः।
केन्द्रीयविज्ञानप्रौद्योगिकीमन्त्रालयस्य वक्तव्येनानुसारं, राजधानीदेहलीस्थिते सीएसआईआर-विज्ञानकेंद्रे आयोजिताया: अस्याः उच्चस्तरीयायाः सभायाः सह-अध्यक्षता सीएसआईआर महानिदेशकेन सचिवेन च (वैज्ञानिक तथा औद्योगिकानुसन्धानविभागः) डॉ एन कलैसेलव्याः, तथा आईसीएमआर-महानिदेशकेन सचिवेन च (स्वास्थ्यानुसन्धानविभागः) डॉ राजीवबहलेन कृताः। सभायां उभयसंस्थानानां वरिष्ठाधिकाऱिणः, नानापरिशीलनशालानां निदेशकाश्च उपस्थिताः।
सभायां संयुक्तपरियोजनानां समीक्षा कृता, यस्मिन् सीएसआईआर विकसित-अणूनां परीक्षणचरणस्य प्रगति:, आईसीएमआर-समर्थित-उन्नत-अनुसन्धानकेन्द्राणां प्रगतिः, नगरचिकित्सालयसमुदायेषु च बहुरोगजन्य-अपशिष्टजलनिगरणस्य स्थिति च चर्चाविषयाः बभूवुः।
सभायां नूतन-औषधीनां विकासः, नियतपद्धत्यनुसारं चिकित्सकीयपरीक्षणम्, आईसीएमआर कृतस्य स्थूलजीवन्तुषु विषाक्ततापरीक्षणसुविधायाः प्रभावी-उपयोगश्च विचारितः।
एसीएसआईआर–आईसीएमआर-शोधोपाधिकार्यक्रमस्य समीक्षाकाले युवाशोधार्थिभ्यः अवसरवर्धनम्, उभयसंस्थानयोः छात्रवृत्तीनां उत्तमाभिसंयोजने विशेषः बलः दत्तः।
डॉ कलैसेलव्या: डॉ बहलमहोदयस्य च मतम् यत् राष्ट्रस्य आवश्यकतानुरूपं सीएसआईआर-वैज्ञानिकक्षमता तथा आईसीएमआर लोकस्वास्थ्यस्य कर्तव्यं—एतयोः समन्वितः प्रयासः अत्यावश्यकः। संयुक्ततन्त्रज्ञानविकासे, विशेषत: अङ्कीयनियन्त्रणाधारितचिकित्साऽपत्त्कालमानवरहितविमानसेवायाः सुव्यवस्थिततन्त्रस्य निर्माणे च बलः प्रदत्तः। सभायां जैवचिकित्साविज्ञानम्, निदानविज्ञानम्, अङ्कीयस्वास्थ्यं, पर्यावरणीयस्वास्थ्यनिगरणम् इत्यादिषु उदितेषु क्षेत्रेषु सहयोगस्य सुदृढीकरणम् तथा संयुक्तपरियोजनाविकासस्य वेगवर्धनम् अपि निर्णीतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता