Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 25 नवंबरमासः (हि.स.)।
विश्वप्रसिद्धस्य बदरीनाथधामस्य कपाटाः अद्य शुभमुहुर्ते अपराह्णे द्वौ घटीकाः षट्पञ्चाशद्मिनिट् (2:56) वादनसमये शीतकालाय निमीलिताः भविष्यन्ति। मान्यते यत् षण्मासान् मनुष्यैः तथा षण्मासान् देवताभिः भगवानं बदरीनाथं पूज्यते।
अद्य सर्वविधि-विधानेन, अखण्डदीपस्य प्रकाशमध्येत मां लक्ष्मीम् एवं भगवानं बदरीनाथं घृतकम्बलेन आच्छाद्य कपाटाः निमीलिताः भविष्यन्ति। कपाट-निमीलन-समये मन्दिरं पुष्पैः सुशोभितं कृतम्।
प्रातःकालात् एव श्रद्धालूनां विशालः समागमः प्रवृत्तः। गढ़वाल-राइफल्-दलेन वादितस्य वाद्यगोष्ठी-ध्वनिना सह कपाट-निमीलनस्य परम्परा प्रातःकालेभ्यः एव अनुवर्तते। विशेष-शृङ्गारं कृत्वा भगवतः नानाप्रकाराः भोगाः अर्पिताः।
उल्लेखनीयम् यत् अस्मिन् वर्षे भगवानं बदरीविशालं द्रष्टुं १६ लक्षं ६० सहस्रं श्रद्धालवः आगच्छन्।
-------------
हिन्दुस्थान समाचार