शीतकालाय बदरीनाथधाम्नः द्वारं निरुद्धम् ‘जय बदरीविशाल’ इति जयघोषैः गुञ्जितं धाम
देहरादूनम्, 25 नवम्बरमासः(हि.स.)। उत्तराखण्डस्य प्रसिद्धं श्रीबदरीनाथधाम्नः अद्य मंगलवासरे शुभमुर्हुते अपराह्णे २:५६ वादने शीतकालयात्रायै पूर्णविधिविधानपूर्वकं स्थानीयपरम्परानुसारं द्वारं निरुद्धम्। तस्मिन् काले ‘जय बदरीविशाल’ इति जयघोषेण सर्वं धाम
फूलों से सजा नारायण का नाम।


देहरादूनम्, 25 नवम्बरमासः(हि.स.)। उत्तराखण्डस्य प्रसिद्धं श्रीबदरीनाथधाम्नः अद्य मंगलवासरे शुभमुर्हुते अपराह्णे २:५६ वादने शीतकालयात्रायै पूर्णविधिविधानपूर्वकं स्थानीयपरम्परानुसारं द्वारं निरुद्धम्। तस्मिन् काले ‘जय बदरीविशाल’ इति जयघोषेण सर्वं धाम गुञ्जमानम् अभवत्। द्वारनिरोधनसहितं अस्य वर्षस्य चारधाम-यात्रायाः औपचारिकं समापनम् अपि जातम्। अस्मिन् वर्षे ५१ लक्षाधिकाः भक्ताः चतुर्धामदर्शनाय आगतवन्तः।

द्वारनिरोधनात् पूर्वं माता लक्ष्म्यै, भगवते बदरीनाथाय च विशेषभोगः अर्पितः। तदनन्तरं लक्ष्मीभगवतोः घृत-आच्छादकम् आच्छादितम्। कपाटनिरोधनानन्तरं बुधवासरे प्रातः श्रीकुबेरजी, उद्धवजी च पाण्डुकेश्वरम् प्रति, तथा शंकराचार्यासनः ज्योर्तिमठं प्रति प्रस्थास्यति। ज्योर्तिमठे पाण्डुकेश्वरे च तेषां स्वागतार्थं विशेष-सिद्धताः कृताः।

मुख्यमंत्री पुष्करसिंहधामी अवदत् अस्य वर्षस्य यात्रा बहु-आव्हानपूर्णा आसीत्। ‘ऑपरेशन् सिंदूर’ इत्यनेन सह आपदाः पुनः पुनः यात्रायाः विघ्नकारिण्योऽभवन्। तथापि ५१ लक्षाधिकाः भक्ताः चारधामदर्शनं कृतवन्तः। मुख्यमन्त्रिणा तीर्थपुरोहितानां, पण्डितसमाजस्य, धार्मिकसभानां, जनप्रतिनिधीनां, प्रशासनस्य, अश्वगर्दभपरिचालकानां च आभारः व्यक्तः। सः अवदत् यत् शीतकालीनयात्रायाः सिद्धताः आरब्धाः। आगामि यात्राकाले यात्रा अधिकसुगमा, अधिकभव्याश्च भविष्यति इति।

द्वारनिरोधनसन्दर्भे बदरीनाथकेदारनाथ मन्दिरसमितेः (बीकेटीसी) अध्यक्षः हेमन्तद्विवेदी, रावलः अमरनाथनम्बूदरिः, धर्माधिकारी राधाकृष्णथपलियालः, प्रभारीधर्माधिकारी स्वयंबरसेमवालः, वेदपाठी रविन्द्रभट्टः, तथा सर्वे हक्-हकूकधारिणः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता