बलरामपुरम् : रामानुजगंजे भक्तेः अनुपमं प्रेरणं, स्वयं उटजे वसति, परं निर्मितवान् 12 लक्षस्य भव्यं शिवमंदिरम्
बलरामपुरम्, 26 नवंबरमासः (हि.स.)। छत्तीसगढ़स्य बलरामपुर–रामानुजगंज-जनपदस्य रामानुजगंज-ब्लॉकस्थितस्य वार्ड–३ इत्यस्य एकः साधारणः पुरुषः अधुना सर्वत्र चर्चाविषयः जातः। नथुनी-भगत इति नामकः अयं शिवभक्तः स्वस्य सम्पूर्णजीवनसञ्चितं धनं भगवानं महादेवं प
मंदिर


नथुनी भगत


बलरामपुरम्, 26 नवंबरमासः (हि.स.)।

छत्तीसगढ़स्य बलरामपुर–रामानुजगंज-जनपदस्य रामानुजगंज-ब्लॉकस्थितस्य वार्ड–३ इत्यस्य एकः साधारणः पुरुषः अधुना सर्वत्र चर्चाविषयः जातः। नथुनी-भगत इति नामकः अयं शिवभक्तः स्वस्य सम्पूर्णजीवनसञ्चितं धनं भगवानं महादेवं प्रति समर्पितवान्। स्वयम् अपि कच्चे गृहे वसन् नथुनी भगतः स्वमातुः स्वप्नं साकारयितुं लक्षाधिक-व्यये भव्यं शिवमन्दिरं निर्मापितवान्, यस्य कथा सर्वान् प्रेरयति।

प्रायः १२ लक्ष-रूप्यक-व्यये निर्मितं एतत् दिव्यमन्दिरम् अधुना नगरस्य विशेष-परिचयः अभवत्। शिव–पार्वती–परिवारस्य विधिवत् प्राणप्रतिष्ठा कृता, यत्र शतशः श्रद्धालवः दूरात् आगत्य सम्मिलिताः। भण्डार-व्यवस्था, पूजनं, अर्चनं च सम्पन्ने, सर्वः मन्दिर-प्राङ्गणः भक्तिरसैः पूर्णम् अभवत्।

नथुनी-भगतः कथनं

तेषां माता स्वर्गीया राजमती देवी ग्रामे एकं भव्यं शिवालयं द्रष्टुम् इच्छन्त्य आसन्। एताम् एव कामनां नथुनी भगत: स्वजीवनस्य दृढसंकल्परूपेण स्वीकृतवान्। अल्पायस्यः सन् अपि बहूनि वर्षाणि धनं संचित्य तेन एतत् मन्दिरम् आकारं नीतम्। तस्य मतम्—

“मातुः अपूर्णं स्वप्नं पूर्तं कर्तुं शक्नोमि—एवमेव मम जीवनस्य महत् सौभाग्यम्।”

मन्दिरस्य विशेषता—तस्य ३२ फूट् उच्चः मुख्यः गुंबदः यः नगरस्य उच्चतमं धार्मिक-गृहम् मन्यते। मन्दिरस्य कलाकृतिः, भव्यता च द्रष्टुं समीपस्थ-जनाः निरन्तरं आगच्छन्ति।

अत्यन्तं हृदय-विदारकं तथ्यं तु यत्मन्दिरस्य समीपे एव अद्यापि नथुनी भगतः साधारणे उटजे वसति। सः वदति यत् “स्वार्थेन महद्गृहं निर्मातुं यत् आनन्दो न भवति, तदपि अधिको मे आनन्दः यत् ग्रामे अधुना स्थानम् अस्ति, यत्र जनाः श्रद्धया शिवं दृष्टुं आगच्छेयुः।”

एषा तस्य निष्काम-भक्ति, सरलता, समर्पणभावना च सरगुजा-प्रदेशस्य सर्वेषां जनानां कृते प्रेरणासन्देशरूपेण प्रतिष्ठिता।

---------------

हिन्दुस्थान समाचार