Enter your Email Address to subscribe to our newsletters

पटना, 26 नवंबरमासः (हि.स.)।मुख्यमन्त्रिणा नीतीशकुमारेण संविधानदिने सर्वेषां देशवासिनां प्रति शुभकामनाः दत्ताः।
ते स्वस्य शुभकामना–सन्देशे अवदन् यत्“सर्वेभ्यः देशवासिभ्यः संविधानदिवसस्य हार्दिकाः शुभकामनाः। भारतीय–संविधानस्य निर्माणे अमूल्यं योगदानं दत्तवन्तः ये महनीयाः स्वातन्त्र्यसैनिकाः, संविधान–निर्मातारः, तथा संविधान–सभायाः विद्वांसः, तेषां सर्वेषां प्रति शतशः नमः।”
मुख्यमन्त्रिणा नीतीशकुमारेण अस्मिन्नवसरे उक्तं यत् “भारतीयसंविधानं अस्माकं लोकतन्त्रस्य आधारशिला अस्ति, यत् सर्वेभ्यः नागरिकेभ्यः समता–न्याय–स्वतन्त्रतायाः संरक्षणं ददाति।”
तैः संविधानस्य मूलभावनां अनुसरन् राष्ट्रनिर्माणे सक्रियं योगदानं दातुं सर्वान् आह्वानितम्।
---------------
हिन्दुस्थान समाचार