Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 नवंबरमासः (हि.स.)। संविधानदिवसस्य अवसरोपलक्ष्ये देहलीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता बुधवासरे संविधानस्य निर्माणकर्तारं डॉ. बाबासाहेब् आंबेडकरम् सहितान् सर्वान् संविधाननिर्मातॄन् नमस्कृत्या देशवासिभ्यः हार्दिकशुभाशंसाः प्रादात्। सा अवदत्त— भारतस्य संविधानं केवलं विधिकपत्राणि न, अपितु अस्माकं लोकतन्त्रात्मकमूल्यानां, समानाधिकाराणां, नागरैकर्तव्यानां, सार्वत्रिकन्यायस्य च श्रेष्ठा अभिव्यक्तिः अस्ति।
मुख्यमन्त्री उक्तवती यत् संविधानम् अस्मान् तादृशस्य राष्ट्रस्य रूपेण एकत्र बध्नाति, यत्र विविधता शक्तिरूपेण अस्ति, समावेशिता च अस्माकं संकल्पः। अस्मिन्नवसरे सा नागरिकान् प्रति आहितवती यत् ते राष्ट्रहितं लोककल्याणभावनां च अनुसृत्य संविधानमध्ये निहितान् आदर्शान्, कर्तव्यं, अनुशासनम्, समानतां, साझाप्रगतिं च स्वस्य आचरणे अधिकदृढतया अवलम्बयन्तु।
रेखागुप्ता मुम्बै–२६/११–आतङ्किहिंसाकाण्डे शहीदान् निर्दोषनागरिकान् विनयपूर्वकं श्रद्धाञ्जलिं दत्त्वा तेषां वीरआरक्षकान् (पुलिसकर्मचारिणः), सुरक्षाकर्मिणः, सैनिकांश्च अपि नमस्कृतवती, येन कर्तव्यपालनं कुर्वद्भिः सर्वोच्चं बलिदानं दत्तम्। सा उक्तवती यत् एषा जघन्या घटना सम्पूर्णमानवतां कंपितवती। ‘न विस्मरामः, न च कदापि विस्मरिष्यामः’ इति सा अकथयत्।मुख्यमन्त्री रेखागुप्ता पुनरुक्तवती यत् प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे भारतस्य नीति: आतंकवादस्य प्रति सदा एव शून्यसहिष्णुता आसीत्, भविष्येऽपि तत्र कश्चन परिवर्तनः न भविष्यति।
----------------------
हिन्दुस्थान समाचार / अंशु गुप्ता