बद्रीनाथात् श्रीकुबेरस्य, उद्धवस्य तथा शङ्कराचार्यस्य सिंहासनं प्रस्थितम्, अद्य पाण्डुकेश्वरं प्राप्स्यति
देहरादूनम्, 26 नवंबरमासः (हि.स.)। श्रीबदरीनाथधामस्य कपाटबन्धानन्तरं बुधवासरे श्रीकुबेरस्य, उद्धवस्य तथा आदि–गुरुशङ्कराचार्यस्य आसन्ब बदरीनाथस्य रावलस्य नेतृत्वे पाण्डुकेश्वरं प्रति प्रस्थितवती। पाण्डुकेश्वरात् श्वः अर्थात् २७ नवम्बर दिनाङ्के शङ्करा
भू-बैकुंठ बदरीनाथ


देहरादूनम्, 26 नवंबरमासः (हि.स.)। श्रीबदरीनाथधामस्य कपाटबन्धानन्तरं बुधवासरे श्रीकुबेरस्य, उद्धवस्य तथा आदि–गुरुशङ्कराचार्यस्य आसन्ब बदरीनाथस्य रावलस्य नेतृत्वे पाण्डुकेश्वरं प्रति प्रस्थितवती। पाण्डुकेश्वरात् श्वः अर्थात् २७ नवम्बर दिनाङ्के शङ्कराचार्यगद्दी ज्योर्तिमठं प्रति प्रस्थितास्यति। शीतकालखण्डे उद्धवकुबेरौ पाण्डुकेश्वरस्य आदिबदरीमन्दिरे, शङ्कराचार्यगद्दी च ज्योर्तिमठे पूजाऽर्चनाविधौ भविष्यति।

डोलीनां पाण्डुकेश्वरं प्राप्तौ भव्यः स्वागतविधिः भविष्यति। तस्य कृते मन्दिरसमित्या सर्वाः व्यवस्थाः सम्पन्नाः। श्रीबदरीनाथ–केदारनाथमन्दिरसमितेः माध्यमप्रभारी हरीशगौडेनोक्तं यत् मन्दिराणि पुष्पैः अलङ्कृतानि, तीर्थपुरोहितैः सह स्थानीयजनाः डोलीनां स्वागतं करिष्यन्ति इति। पूजाऽर्चनानन्तरं कुबेरस्य उद्धवस्य च गर्भगृहे प्रतिष्ठा भविष्यति। ततः २७ नवम्बरदिनाङ्के आदिगुरुशङ्कराचार्यगद्दी पाण्डुकेश्वरात् ज्योर्तिमठं प्रति रवाना भविष्यति। ज्योर्तिमठेऽपि विशेषपूजायाः व्यवस्थाः क्रियमाणाः। तद्योगे भगवतः नरसिंहस्य विशेषपूजाऽर्चना, विशिष्टभोगसमर्पणं च भविष्यति। अस्मिन् अवसरे स्थानीयग्रामवासिनः उत्सवं कुर्वन्ति, दूरेभ्यः आगत्य अपि जनाः भगवन्तं नरसिंहं प्रति पूजाः समर्पयितुं आगच्छन्ति।

-----

हिन्दुस्थान समाचार / अंशु गुप्ता