Enter your Email Address to subscribe to our newsletters

चेन्नईनगरम् , 26 नवम्बरमासः (हि.स.)। अखिलभारतीयअन्नाद्रविडमुनेत्रकषगम् (एआईएडीएमके) इत्यस्मात् निष्कासितः पूर्वमन्त्री वरिष्ठनेता च के.ए. सेङ्गोट्टैयन् बुधवासरे स्वस्य विधायकपदात् त्यागपत्रं दत्तवान्। सः विधानसभासचिवालये सभापतये अप्पावू इत्यस्मै स्वत्यागपत्रम् उपन्यवेदयत्।
अतीतानि केही मासानि यावत् सेङ्गोट्टैयन् तथा एआईएडीएमके महासचिवः एडप्पाडि–के.–पलानीस्वामी (ईपीसी) इत्येतयोः मध्ये मतभेदाः प्रवर्तन्ते स्म। विवादः तदा अधिकः जातः यदा तेन ३० अक्टूबरदिनाङ्के टीटीवी–दिनाकरन्, ओ.–पन्नीरसेल्वम् (ओपीसी) इत्येताभ्यां सह “तेवरगुरुपूजा”–नाम्नि कार्यक्रमे भागः कृतः। ततः अनन्तरं ईपीएस–नेता तं पक्षात् निष्कासितवान्।
त्यागपत्रदानेन अनन्तरं राजनीतिकविभागे चर्चाः प्रवृत्ताः यत् सेङ्गोट्टैयन् टीटीवी-दिनाकरन् नेतृत्वे अम्मामक्कलमुनेत्रकषगम् (एएसएसके) अथवा द्रविडमुनेत्रकषगम् (डीएमके) इत्येतयोः कतरेपि पक्षे सम्मिलितुं शक्नोति। किन्तु गतसोमवासरे पत्रकारैः पृष्टः सः कस्यापि पक्षे सम्मिलने विषये किमपि अभिप्रायम् अक्तुं न इच्छत्।
तथ्यतः सेङ्गोट्टैयन् तमिलनाडुराज्यस्य अत्यन्तानुभवीविधायकेषु प्रमुखः अस्ति। अद्यावधि दशविधानसभानिर्वाचनानां मध्ये नववारं विजयम् प्राप्तवान्। १९७७ तमे वर्षे प्रथमवारं सः एआईएडीएमके–पक्षस्य नाम्ना सत्यमङ्गलम् अधिष्ठानात् निर्वाचने जयम् अलभत। १९७२ तमे वर्षे एम.जी. रामचन्द्रन् एआईएडीएमके पक्षं स्थाप्य यदा, तदा एषः अपि तेन सह संयोजितः जातः, पक्षस्य आद्य नेतृभिः मध्ये प्रमुखः अभवत्। एमजीआर नेता, अनन्तरं जयललिता नेत्री च, उभयोः विश्वसनीयनेता इति तस्य प्रतिष्ठा आसीत्। एमजीआर राजनीतिकपरम्परां संवर्धयितुं यः प्रमुखः नेता, तेषु मध्ये सेङ्गोट्टैयन् अग्रणी आसीत्, यस्य सक्रियता दशाधिकवर्षपर्यन्तं एआईएडीएमके–पक्षे तस्य प्रभावं स्थिरं कृतवती।
सेङ्गोट्टैयन् १९४८ तमे वर्षे इरोडजनपदे कुल्लम्पालयम्–नाम ग्रामे जातः। तेन स्वस्य राजनीतिकजीवनस्य आरम्भः द्रविडमुनेत्रकषगम् (डीएमके) इत्यस्मात् कृतः। परम् १९७२ तमे वर्षे एमजीआर नेता पक्षगठनं कृत्वा, तेन सह मिलित्वा, एआईएडीएमके पक्षस्य प्रारंभिकवृत्तिषु महत्त्वपूर्णं योगदानम् अकुर्वत्।
१९७५ तमे वर्षे कोयम्बटूरस्थिते आमसभासम्मेलने सफलतां साध्य सेङ्गोट्टैयन् एमजीआर नेतुः प्रशंसां प्राप्तवान्। एतेन सफलेन कार्येण सः पक्षनेतृत्वस्य विश्वसनीयनेता अभवत्। १९७७ तमे वर्षे प्रथमं सत्यमङ्गलं स्थानात् जयम् अलभत। ततः १९८० तः आरभ्य अद्य यावत् सर्वेषु प्रायः निर्वाचनासु विजयं प्राप्तवान्; केवलं १९९६ तमे वर्षे तस्य पराजयः अभवत्। तेन दीर्घकालम् पक्षस्य संगठनसंरचना निर्वाचनरणनीतिः च अत्यन्तं महत्त्वपूर्णं रूपेण विधृतम्।
एमजीआर नेतुः निधनानन्तरं यदा पक्षः द्वौ गुटौ अभवताम्, तदा सेङ्गोट्टैयन् जयललितायाः पक्षं अवलम्ब्य, तस्या विश्वसनीयनेता अभवत्।
अद्यतन राजनीतिकपरिस्थितौ तस्य त्यागपत्रदानेन अनन्तरं चर्चा अस्ति यत् सः शीघ्रमेव कस्यचिद् नूतनस्य पक्षस्य सदस्यः भविष्यति। सूत्राणि वदन्ति यत् डीएमके पक्षस्य तथा अन्येषां दलानां नेतारः तेन सह सम्वादं कुर्वन्ति, येन अनुमान्यते यत् भविष्यात् सः राजनीतिकक्षेत्रे नूतनं चरणं कर्तुं सिद्धः अस्ति।---------------
हिन्दुस्थान समाचार / अंशु गुप्ता