Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 नवंबरमासः (हि.स.)। आम-आदमी-पार्टी (आआपा)स्य स्थापना-दिवसे आआापा-स्य राष्ट्रिय-संयोजकः अरविन्दः केजरीवालः बुधवासरे सर्वान् पार्टी-कार्यकर्तॄन् नेतॄंश्च बधाईम् अदात्। सः उक्तवान् यत् जनतानां सहायतैव अस्माकं महती शक्तिः अस्ति। अस्मिन् अवसरि सः उक्तवान् यत् अद्यैव दिने 2012 तमे वर्षे आम-आदमी-पार्टी जन्मम् अलभत।
अरविन्दः केजरीवालः सोशल-मीड़िया-‘एक्स्’ इति मंचे पोस्ट् कृत्वा लिखितवान् यत् आम-आदमी-पार्टीस्य स्थापना-दिवसे अहं देश-भरस्य लाखशः सहचरान् सर्वान् स्वेच्छासेवकान् तथा च तान् सर्वान् आम-जनान् ये प्रतिपन्नवन्तः यत् राजनीति ईमानदारी-पूर्वकापि कर्तुं शक्या, हृदयात् प्रणमामि।
सः उक्तवान्—एषा पार्टी नेतॄणाम् न, किन्तु जनतानां पार्टी अस्ति। चौपालादारभ्य पथेषु पर्यन्तं अस्माकं स्वेच्छासेवकाः दिनं-रात्रं परिश्रम्य परिवर्तनस्य ज्वालाम् उद्बद्धवन्तः सन्ति।केजरीवालः अवदत्—अद्य याः अपि उपलब्धयः दृश्यन्ते, ताः जनतानां विश्वासस्य अस्माकं सैनिकानां तपस्याश्च परिणामः सन्ति। जनतान् प्रति वचनं दत्त्वा सः उक्तवान् यत् सत्यं, प्रमानिकता च देश-सेवा च इति अस्याः यात्रायाः मार्गः अधुना अधिक-स्थैर्येण अग्रे गमिष्यति। जनता एव पार्टीस्य महती शक्तिरेव अस्ति।
------------------
हिन्दुस्थान समाचार / अंशु गुप्ता