Enter your Email Address to subscribe to our newsletters

गौतमबुद्धनगरम्, 26 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य गौतमबुद्धनगरजनपदे स्थितस्य नोएडा–अन्ताराष्ट्रीयविमानपत्तनस्य सिविलएविएशनलसिक्योरिटीब्यूरो (बीसीएएस) इति समितेः दलं सोमवासरं मङ्गलवासरं च निरन्तरं द्वौ दिवसौ पर्यन्तं निरीक्षणम् अकुर्वत्, मानदण्डान् अपि परीक्षितवन्तः। समिति शीघ्रमेव स्वप्रतिवेदनम् नागरविमाननमहानिदेशालयाय (डीजीसीए) समर्पयिष्यति। तस्मात् संस्थानात् हरितसंकेतः प्राप्तः चेत् विमानपत्तनं एयरोड्रम-अनुमतिपत्रं लप्स्यते।
नोएडा-अन्ताराष्ट्रीयविमानपत्तनस्य नोडलाधिकारी शैलेन्द्रभाटिया बुधवासरे अवदत् यत् बीसीएएस समितेः सुरक्षानिरीक्षणा द्विदिवसीया पूर्णा जाताऽस्ति। तेन उक्तं यत् विमानपत्तने सर्वाः सज्जताः सम्पन्नाः सन्ति। बीसीएएस–दलेन यात्रिकाणां सामग्र्याः परीक्षणार्थं यानि उपकरणानि तेषां परीक्षणम् अपि कृतम्। अस्यां प्रक्रियायां एयरसाइडटर्मिनल-भवनम् अन्ये च प्रदेशाः, यत्र सीआईएसएफ बलस्य कर्मिणः नियुक्ताः भविष्यन्ति, तेषां संख्याया अवलोकनम् अपि कृतम्। समितिना विमानपत्तनस्य सर्वे सुरक्षा-उपकरणाः परीक्षिताः। अस्मिन् समये सुरक्षामानदण्डानुपालनम् अपि दृष्टम्। समितेः द्विदिवसीया परीक्षा सम्पूर्णा जाता। शीघ्रमेव बीसीएएस दलं स्वप्रतिवेदनं दास्यति। अनुमान्यते यत् प्रतिवेदनप्राप्तेः अनन्तरं डीजीसीए अस्य सप्ताहस्य अन्तर्गतं एयरोड्रम अनुमतिपत्रं प्रदास्यति। एयरोड्रम अनुपतिपत्रं लब्धेः अनन्तरम् विमानपत्तनस्य उद्घाटनतिथिः निश्चिताऽस्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता