Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 नवम्बरमासः (हि.स.)। प्रधानामन्त्री नरेन्द्रमोदिना बुधवासरस्य प्रातः दशवादने चित्रमुद्रिकासम्मेलनस्य माध्यमेन जीएमआर वाय्वन्तरिक्ष-औद्योगिकोद्यानस्य विशेषार्थिकक्षेत्रे, राजीवगान्धीअन्ताराष्ट्रीयविमानपत्तनस्य समीपे, हैदराबादस्थिते सफ्रानएयरक्राफ्टइञ्जिन्सर्विसेज्इण्डिया (एसएईएसआई) सुविधाकेन्द्रस्य उद्घाटनं कृतम्।
प्रधानमन्त्री मोदिना चित्रमुद्रिकासम्मेलनमार्गेण उद्घाटनं कृत्वा कार्यक्रमं च सम्बोधितम्। स्वीय–उद्बोधने सः अवदत् यत् अद्य भारतस्य विमाननक्षेत्रं नूतनां उड़ानां वहति। सफ़्रानस्य एषा नवीना सुविधा भारतं वैश्विक-एम्आरओ-केन्द्ररूपेण प्रतिष्ठापयितुं सहायिका भविष्यति इति अपि सः उक्तवान्। एषा सुविधा न केवलं तन्त्रज्ञानक्षमतां वर्धयिष्यति, अपि तु युवानां कृते नवानि अवसराणि अपि सृजिष्यति। भारतस्य विषये सफ़्रानसमूहस्य निवेशः आगामिकालेऽपि एवं प्रवृत्तिरूपेण स्थास्यति इति प्रधानमन्त्रिणा आशा व्यक्ता।
उद्बोधने सः अवदत् यत् आद्यतन भारतीयानां आकाङ्क्षाः आकाशोन्नतिम् आप्नुवन्ति, देशस्य विमाननक्षेत्रं तेषां महत्त्वाकाङ्क्षाभ्यः नूतनां शक्तिं ददाति च। शासनस्य प्राथमिकता अस्ति यत् एम्आरओ–क्षमताः देश एव द्रढीकृताः भवेरन्, येन समयस्य व्ययः लागतश्च न्यूनो भवेत्।
स्वल्पोद्बोधने सः उक्तवान् यत् गतवर्षेषु भारतस्य विमाननक्षेत्रं अभूतपूर्वेन वेगेन अग्रेऽभवत्। वर्धमाना याचना कारणात् मेंटेनेन्स्, रिपेयर, एम्आरओ–सेवाः च अत्यन्तं वर्धिताः सन्ति।
प्रधानमन्त्री अवदत् यत् भारतस्य प्रायः 85 प्रतिशतं एम्आरओ–कार्यं विदेशेषु एव भवति स्म, येन व्ययः वर्धते स्म, विमानानि च दीर्घकालं भूमौ स्थितानि भवन्ति स्म। एतेषां परिस्थितीनां परिवर्तनाय शासनं देशे दृढं एम्आरओ–परिवेशं विकसितुं निर्णीतवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता