Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 नवम्बरमासः (हि.स.)। राष्ट्रपति द्रौपदीमुर्मु इति बुधवासरे सम्पन्ने संविधानदिवससमारोह एव अवदत् यत् तीनलाक इत्यस्य दूषितप्रथायाः नियन्त्रणम्, जीएसटी व्यवस्थायाः प्रवर्तनम्, अनुच्छेद ३७० निरसनम्, नारीशक्तिवन्दनाधिनियमस्य च प्रवर्तनम् एतेषां सर्वेषां चरणानां फलस्वरूपं देशे सामाजिकन्यायः, आर्थिक–ऐक्यम्, महिलानेतृत्वसमन्वितविकासः च नूतनां दिशां प्राप्तवन्तः इति।
अद्य संविधानसदनस्य मध्यकक्षे आयोजिते संविधानदिवसकार्यक्रमे राष्ट्रपतिः संविधानस्य अङ्कीयरूपं नवभाषासु प्रकाशितवती। तस्मिन् समये उपराष्ट्रपति सी.पी. राधाकृष्णन्, प्रधानामन्त्री नरेन्द्रमोदिः, लोकसभासभापतिः ओम् बिड़ला, राज्यसभाउपसभापतिः हरिवंशः, संसदीयकार्यमन्त्री किरेन् रिजिजू, राज्यसभानेता जे.पी. नड्डा, लोकसभाप्रतिपक्षनेता राहुलगान्धी, राज्यसभाप्रतिपक्षनेता मल्लिकार्जुनखड़गे तथा अन्ये सांसदाः अपि उपस्थिताः आसन्। सर्वे मिलित्वा संविधानस्य प्रस्तावनां सामूहिकतया पठितवन्तः।
अस्मिन् अवसरे राष्ट्रपतिः अवदत् यत् संविधानम् उपनिवेशवादीमानसिकतां त्यक्त्वा राष्ट्रीयचिन्तनस्य ग्रहणं प्रदर्शयति, मार्गदर्शकम् अस्ति च। तेन उक्तम् यत् संविधाननिर्मातृभिः नागरिकाणां व्यक्तिगताधिकाराणां, लोकतान्त्रिक–अधिकाराणां च संरक्षणं सर्वोपरि स्थाप्यते स्म। तस्मादेव अद्य महिलाः, युवानः, अनुसूचितजातयः, अनुसूचितजनजातयः, कृषकाः, मध्यमवर्गः, नवमध्यमवर्गः च लोकतन्त्रं सुदृढं कुर्वन्ति। राष्ट्रपतिः पञ्चविंशतिकोटिजनान् दरिद्रतायाः बहिः नीतवन्तं देशस्य महान् उपलब्धिं इति अपि अवोचत्।
उल्लेखनीयम् यत् संविधानदिवसः प्रतिवर्षं नवम्बरमासस्य षट्विंशतितमे दिनाङ्के आचर्यते। अस्मिन् एव दिवसे १९४९ तमे वर्षे संविधानसभा एतस्मिन्न् एव केन्द्रीयकक्षे भारतसंविधानम् अंगीकृतवती आसीत्
हिन्दुस्थान समाचार / अंशु गुप्ता