नेपालस्य अध्यक्षतायां सार्ककार्यक्रमीकरणसमितेः 61तमम् अधिवेशनं शुभारब्धम्
काठमांडूः, 26 नवंबरमासः (हि.स.)। सार्क-प्रोग्रामिङ्-समितेः एकषष्टितमः अधिवेशनम् बुधवासरे आभासी-माध्यमेन आरब्धम्। अस्मिन् अधिवेशने सार्कस्य सर्वे सदस्यराष्ट्राणां वरिष्ठ-अधिकारीणः, विविधानां विशिष्टीकृत-निकायानां क्षेत्रीय-केन्द्राणां अध्यक्षाः, त
सार्क प्रोग्रामिंग समिति की बैठक


काठमांडूः, 26 नवंबरमासः (हि.स.)।

सार्क-प्रोग्रामिङ्-समितेः एकषष्टितमः अधिवेशनम् बुधवासरे आभासी-माध्यमेन आरब्धम्। अस्मिन् अधिवेशने सार्कस्य सर्वे सदस्यराष्ट्राणां वरिष्ठ-अधिकारीणः, विविधानां विशिष्टीकृत-निकायानां क्षेत्रीय-केन्द्राणां अध्यक्षाः, तथा सार्क-सचिवालयस्य अधिकारीणः सम्मिलिताः सन्ति। अस्य वर्षस्य अधिवेशनस्य अध्यक्षता नेपालदेशः करोति।

सभायां बाङ्ग्लादेश, भूटान, भारत, मालदीव, नेपाल, पाकिस्तान, श्रीलङ्का इत्येतेषां राष्ट्राणां संयुक्त-सचिव-तथा महानिदेशक-स्तरीय अधिकारीणां सहभागः अभवत्। अधिवेशनकाले समिति वर्ष 2026 कृते सार्कस्य विशिष्टीकृत-निकायानां क्षेत्रीय-केन्द्राणां च अर्थसङ्कल्पं (बजट्) तेषां च गतिविधि-पञ्चाङ्गं समीक्षा कृत्वा अन्तिमरूपं दास्यति।

अधिवेशनस्य औपचारिक-उद्घाटनं नेपालस्य विदेश-मन्त्रालयस्य संयुक्त-सचिव तथा प्रोग्रामिङ्-समितेः अध्यक्षः किरण-शाक्य इत्यनेन कृतम्। स्वस्य भाषणे सः अवदत् यत् सार्कः दक्षिण-एशियायां क्षेत्रीय-संवादस्य, सहयोगस्य सामूहिक-प्रयासानां च महत्त्वपूर्णं मंचम् अस्ति। समयानुकूलं विकासं कुर्वन् सार्कस्य संस्थागत-क्षमतां सुदृढीकर्तुं आवश्यकं इति सः बलात् उक्तवान्। तथैव दक्षिण-एशियावासिभ्यः प्रत्यक्षं लाभं प्रयच्छन्ति ये कार्यक्रमाः, तान् प्रगाढतया प्रवर्तितुं अनिवार्यं इति अपि सः अवोचत्।

सार्कस्य महासचिवः मो. गोलाम् सरवरः सदस्यराष्ट्राणां मध्ये परस्परसहयोगस्य तत्परतायाः महत्त्वं प्राकटयत्। तेन उक्तं यत् प्रोग्रामिङ्-समितेः भूमिका सार्क-चार्टरस्य अनुरूपं अधिकं प्रभावी कर्तव्या। भाषणकाले सः अवदत् यत् सार्क-स्थापनेन दक्षिण-एशियीय-राष्ट्राणां लक्ष्यं तदेव आसीत्—यत् ते सहयोगेन, साझा-प्रयासैः, व्यक्तिगततया न केवलम्, अपि तु सामूहिकतया श्रेष्ठतमाः सिद्धयः प्राप्नुयुः। अतः सर्वेषां सदस्यराष्ट्राणां संयुक्तं कार्यं अत्यन्तं आवश्यकं इति सः पुनरुक्तवान्।

महासचिवेन एतदपि निर्दिष्टम् यत् शीघ्रमेव सार्कः स्वस्य चार्टर-स्वीकृतेः चत्वारिंशद्वर्षपूर्णत्वस्य गौरवपूर्णं अवसरं उत्सव-रूपेण आचरिष्यति, यः उत्सव-समयः भविष्यानुगामी-मार्गनिरूपणस्य पुनर्विचाराय अपि अत्यन्तं महत्वपूर्णः भविष्यति।

---------------

हिन्दुस्थान समाचार