Enter your Email Address to subscribe to our newsletters


बरेली, 27 नवम्बरमासः (हि.स.)। मुख्यमंत्रीसामूहिकविवाहयोजनायाः अन्तर्गतं गुरुवासरे बरेली-महाविद्यालयस्य क्रीडाङ्गणे 407 युगलानां विवाहोत्सवस्य साक्षी अभवत्। अस्मिन् कार्यक्रमे वर-वध्वौ परिणयसूत्रे बद्धौ भूत्वा नवजीवनस्य प्रारम्भं कृतवन्तौ। वन-पर्यावरणमन्त्री डॉ. अरुणकुमारः सक्सेनामहोदयः अवदत् यत् द्विदिवसेषु सहस्राधिकयुगलानां विवाहः सम्पन्नं कर्तुं योजनास्ति।समारोहस्य विशेषता एषा आसीत् यत् 81 यवनयुगलानि एकस्मिन्मञ्चे निकाहविधिं सम्पादितवन्त्यः, अपि च 326 हिन्दूयुगलानि वैदिकमन्त्रघोषस्य मध्ये सप्तपदीं कृत्वा सप्तजन्मपर्यन्तं सम्बन्धं स्वीकृतवन्तः।
कार्यक्रमस्य शुभारम्भः मुख्यविकासाधिकारिण्या दिव्यानीयया गायत्रीपरिवारस्य संस्थापकस्य चित्रे माल्यार्पणं दीपप्रज्वलनं च कृत्वा कृतः। विधानपरिषद्सदस्यः बहोरेनलालमौर्यः अवदत् यत् सामूहिकविवाहयोजनायाः उद्देश्यः आर्थिकदृष्ट्या दुर्बलपरिवाराणां सम्मानपूर्णतया विवाहव्यवस्थां प्रदातुं तथा सामाजिकसौहार्दं वर्धयितुं च अस्ति। विवाहस्थले 300 अधिकेषु यज्ञवेदिषु आचार्याणां निरीक्षणे एकैकस्मिन् कुले चतुर्णां युगलानां सप्तपदी समपादिताः। यवनयुगलानां निकाहः काजीना कारितः। सर्वकार्या दिशानिर्देशानुसारं नवविवाहितेभ्यः इस्पातपात्रसमूहः, भोजनसमूहः, कपाटिका, वस्त्राणि, रजतअङ्गुलीयभूषणानि, जलशीतलयन्त्रम्, स्थालिकाः, ट्रॉली-थैल्यः, भित्तिघटी, छद्मवायुवाहकः (सीलिंग फैन), सूत्रकः (प्रेस), शय्यापट्टाः, शय्यानि, उपधानानि तथा शृङ्गारसामग्री इत्यादीनि विविधगृहसामग्री प्रदत्ता। सहैव विवाहप्रमाणपत्रं योजनालाभस्वीकृतिपत्रं च समर्पितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता