अडाणी डिफेन्स् इत्यनेन् एफएसटीसी-संस्थायाः 820 कोटिरूप्यक-मूल्येन अधिग्रहणम् कृतम्, वैमानिक-प्रशिक्षणक्षमता वर्धिता अस्ति
नवदेहली, 27 नवम्बरमासः (हि.स.)। अडाणी-समूहस्य संस्था अडाणी डिफेन्स् सिस्टम्स् एण्ड् टेक्नोलॉजीज् लिमिटेड् (एडीएसटीएल्) प्राइम् ऐरो सर्विसेज् एलएलपी इति संस्थया सह फ्लाइट् सिमुलेशन् टेक्निक् सेन्टर् प्रा. लि. (एफएसटीसी) इत्यस्यां बहुमतांशाधिग्रहणार्
एडीएसटीएले और एफएसटीसी के बीच समझौते का जारी फोटो


एडीएसटीएले और एफएसटीसी के बीच समझौते का जारी फोटो


नवदेहली, 27 नवम्बरमासः (हि.स.)। अडाणी-समूहस्य संस्था अडाणी डिफेन्स् सिस्टम्स् एण्ड् टेक्नोलॉजीज् लिमिटेड् (एडीएसटीएल्) प्राइम् ऐरो सर्विसेज् एलएलपी इति संस्थया सह फ्लाइट् सिमुलेशन् टेक्निक् सेन्टर् प्रा. लि. (एफएसटीसी) इत्यस्यां बहुमतांशाधिग्रहणार्थं 820 कोटिरूप्यक-एण्टरप्राइज़्-वैल्यू-आधारितं परामर्शम् अन्तिमरूपेण सिद्धीकृतम्।

अडाणी डिफेन्स् एण्ड् एयरोस्पेस्-संस्थायाः मुख्यकार्यपालकाधिकारी आशीषराजवंशी अवदत्— एतदधिग्रहणम् अस्माकं एकीकृत-विमानसेवा-मञ्चस्य विकासार्थं रणनीतेः अग्रिमः चरणम अस्ति। एफएसटीसी-संस्थायाः एयर् वर्क् तथा इण्डामर् टेक्निक्स्-संस्थाभ्यां सह संयोजनात् अधुना वयं नागरिक-एम्.आर.ओ., सामान्य-विमान्-एम्.आर.ओ., रक्षा-एम्.आर.ओ. तथा पूर्णाङ्ग-विमान-प्रशिक्षणे ग्राहकेभ्यः विस्तृताः सेवाः दातुं समर्था भवामः। भारतीय-विमानसंस्थासु 1500-अधिकानां नवीनविमानानां समावेशेन प्रमाणित-वैमानिकानाम् आवश्यकता बहुगुणिता भविष्यति।

सः अपि अवदत् यत् एषः परामर्शः उन्नत-प्रशिक्षणाय तथा मिशन-पुनराभ्यासाय सर्वकारस्य वर्धमान-प्राथमिकतायाः अनुकूलः सन् रक्षा-सिमुलेशन-क्षेत्रे नवावसरान् सृजिष्यति। सुरक्षित-भारत-दृष्टेः अनुरूपं वयं देशस्य आगामि-पीढ्याः रक्षा-वैमानिकानां निर्माणे योगदानं दातुं लक्ष्यं वहामः। एडीएसटीएल्, अडाणी एण्टरप्राइज़ेस् लिमिटेड् (एईएल्) इत्यस्य सहायक-संस्था अस्ति। होराइज़न् एयरो सॉल्यूशन्स् लिमिटेड् (एचएएसएल्), या एडीएसटीएल् तथा प्राइम् ऐरो सर्विसेज् एलएलपी-संस्थयोः संयुक्त-उद्यमः अस्ति, सा एईएल्-संस्थायाः स्टेप्-डाउन सहायक-संस्था भवति।

अडाणी डिफेन्स् एण्ड् एयरोस्पेस् अडाणी-समूहस्य अङ्गम् अस्ति तथा अत्याधुनिक-रक्षा-उत्पादानाम् अभिकल्पने, विकासे, निर्माणे च अग्रणी वर्तते। फ्लाइट् सिमुलेशन् टेक्निक् सेन्टर् प्रा. लि. (एफएसटीसी) देशस्य सर्वातिवृहत्तमा स्वतन्त्रा विमान-प्रशिक्षण-सिमुलेशन-संस्था अस्ति। एफएसटीसी 11 उन्नतान् पूर्ण-विमान-सिमुलेटरान् तथा 17 प्रशिक्षण-विमानानि सञ्चालयति, येन वाणिज्य-वैमानिक-अनुज्ञापत्रम्, टाइप्-रेटिङ्, पुनः प्रशिक्षणम् तथा विशेष-कौशल-कार्यक्रमान् अन्तर्भाव्य व्यापकं प्रशिक्षणं प्रदाति।

एषा संस्था डीजीसीए (सामान्य-नागरिक-उड्डयन-निर्देशालयः) तथा ईएएसए (यूरोपीय-संघ-विमान-सुरक्षा-अभिकरणम्) इत्याभ्यां प्रमाणिता अस्ति। गुरुग्रामे हैदराबादे च अत्याधुनिक-सिमुलेशन-केन्द्राणि सञ्चालनं करोति, येषां महद्-विस्तारक्षमत्वं वर्तते। तदतिरिक्तं एफएसटीसी हरियाणायां भिवानी-नगरस्य तथा नारनौल-नगरे देशस्य वृहत्तमेषु फ्लाइङ्ग्-विद्यालयेषु एकस्य सञ्चालनम् अपि करोति। नागरिक-उड्डयनवत् एव भारतस्य रक्षा-वैमानिक-प्रशिक्षण-क्षेत्रमपि नवावसररूपेण उद्भवति, यत्र सिमुलेटर-आधारितं प्रशिक्षणं व्ययम् न्यूनयति, सुरक्षा-दक्षतां च वर्धयति। संस्थया रक्षा-नागरिकयोः उभयत्र विस्तारार्थं कठोराः विकास-योजनाः निर्मिताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता