मुख्यमंत्री मुख्यसचिवालयस्य विभिन्न विभागानां कृतवान्निरीक्षणम्
पटना, 28 नवम्बरमासः (हि.स.)।मुख्यमन्त्री नीतीश कुमारोऽद्य मुख्यसचिवालयस्य विविध विभागानां निरीक्षणं कृतवन्तः। अस्मिन् अवसरि मुख्यसचिवकोषाङ्गं, मन्त्रिमण्डलकक्षम्, वित्तमन्त्रिणः कार्यालयम्, अतिथिकक्षं तथा मुख्यसचिवालयस्यान्ये विभागानाम् व्यवस्थां क
मुख्यमंत्री समीक्षा करते हुए


पटना, 28 नवम्बरमासः (हि.स.)।मुख्यमन्त्री नीतीश कुमारोऽद्य मुख्यसचिवालयस्य विविध विभागानां निरीक्षणं कृतवन्तः। अस्मिन् अवसरि मुख्यसचिवकोषाङ्गं, मन्त्रिमण्डलकक्षम्, वित्तमन्त्रिणः कार्यालयम्, अतिथिकक्षं तथा मुख्यसचिवालयस्यान्ये विभागानाम् व्यवस्थां कार्यपद्धतिं च अवलोक्य ज्ञातवन्तः।

निरीक्षणकाले मुख्यमन्त्रिणा अधिकारिणः निर्देशिताः यत् सर्वे जनाः समयेन कार्यालयं आगच्छेयुः, उत्तमरीत्या कार्यनिष्पादनं कुर्वन्तु च। कार्यालये अनुशासनपूर्वकं संवेदनशीलतया च कर्म कुर्वन्तु, येन सर्वकार्याणि समयेन सम्पन्नानि स्युः।

ते अवदन् यत् सम्पूर्णस्य परिसरस्यान्तः नित्यं स्वच्छता भवेत्। परिसरः सुशोभितः आकर्षकः च दृश्येत। परिसरोद्यानप्रदेशौ हरितौ स्याताम्, यत्र आवश्यकं तत्र पौधारोपणं करणीयम्। आगन्तुकानां उपवेशनव्यवस्था सुविधाः च सम्यक् पालयितव्याः। मुख्यसचिवालयं अधिकं उत्तमं सुव्यवस्थितं च कर्तुं योजनां कार्यरूपेण स्थापितुं प्रयत्नः क्रियताम्।

निरीक्षणसमये मुख्यमन्त्रिणः प्रधानसचिवः दीपक कुमार, मुख्यसचिवः प्रत्यय अमृत, विकासायुक्तः डॉ एस सिद्धार्थ, सामान्यप्रशासनविभागस्य अपरमुख्यसचिवः डॉ बी राजेन्द्र, मुख्यमन्त्रिसचिवः अनुपम कुमार, सचिवः श्री कुमार रवि, सचिवः डॉ चन्द्रशेखर सिंह, विशेषकार्याधिकारी श्री गोपाल सिंह तथा अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार