Enter your Email Address to subscribe to our newsletters

पटना, 28 नवंबरमासः (हि.स.)।
बिहारराज्ये राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) सर्वकारस्य निर्माणानन्तरं निर्वाचनकाले जनतायै प्रदत्तप्रतिज्ञासु कार्यं कर्तुं सर्वकारेण आरब्धम् अस्ति। अस्यै क्रमाय अद्य मुख्यमन्त्रिणा नीतिशकुमारेण बिहारराज्यस्य दशलक्षमहिलानां अधिकोषे मुख्यमन्त्री-महिलारोजगार-योजनायाः अन्तर्गतं दशसहस्ररूप्यकपरिमितराशिः प्रत्यक्षं डी-बी-टी-माध्यमेन हस्तांतरिता। हस्तांतरितायां राशौ ९.५० लक्ष ग्रामीणप्रदेशीयानां महिलानां कृते, तथा ५० सहस्र नगरप्रदेशीयानां महिलानां वित्त-अधिकोशे प्रत्यक्षं डी-बी-टी-माध्यमेन धनराशिः मुख्यमन्त्रिणा प्रेषिता।
मुख्यमन्त्री- महिला-रोजगार-योजना इत्यस्य आरम्भः २६ सितम्बरमासे प्रधानमन्त्रिणा नरेन्द्रमोदिनाम्ना विडियो-संवादमाध्यमेन कृतः। ततोऽनन्तरं ७५ लक्षमहिलानां अधिकोशेषु प्रत्यक्षं १०,००० रूप्यकाणि प्रेषितानि। अस्याः योजनायाः अन्तर्गतं ७,५०० कोटिरूप्यकाणां राशि नीतिशसर्वकारेण २६ सितम्बर एव प्रेषिता।
अस्याः योजनायाः अन्तर्गतं महिलाभ्यः दश-दश सहस्ररूप्यकाणि प्रेषयितुं विविधाः कार्यक्रमाः मुख्यमन्त्रिणा निरन्तरं आयोजिता, तथा निर्वाचनघोषणापूर्वं एककोटिः एकविंशतिलक्षमहिलानां खातेषु दश-दश सहस्ररूप्यकाणि प्रेषितानि। मुख्यमन्त्रिणा डिसेम्बरमासपर्यन्तं राशिप्रेषणस्य समय-सूची पूर्वमेव निर्मिता आसीत्, यस्यानुसारं निर्वाचनसमयेऽपि रोजगारार्थं दशसहस्ररूप्यकाणि जीविका-माध्यमेन प्रेषितानि। जीविकापदाधिकारिणां अनुसारम्, अद्यतनपर्यन्तं एककोटिषट्पञ्चाशल्लक्ष महिलानां अधिकोशेषु १०,००० रूप्यकपरिमाणराशिः प्रेषिता।
सर्वकारः अधुना ताभिः महिलाभिः पूर्वं प्राप्तराशेः उपयोगेन आरब्धानां रोजगारकार्यार्थानां मूल्याङ्कनं कुर्वन् अस्ति। तदर्थं जिला-परियोजना-विभागेन (जीविका) जिलातः आरभ्य पंचायतस्तरपर्यन्तं प्रक्रिया आरब्धा। विभागेन प्रखंडवार दलानि नियोजितानि, यानि योजनालाभिनीनां गृहाणि द्वारात्-द्वारं गत्वा तासां रोजगारविषयं ज्ञास्यन्ति। सर्वकारेण पूर्वमेव घोषणा कृतं यत् षण्मासान्तराले मूल्याङ्कनं विधास्यते, ततः परं द्विलक्षरूप्यकाणि पुनः दास्यन्ते। एतत् एन-डी-ए-संकल्पपत्रेऽपि समाविष्टम्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani