(संशोधितम्) चेन्नईनगरं प्रति आगच्छन् ‘दितवाह’ चक्रवातः, तटीयप्रदेशेषु तीव्रा वर्षा, नारङ्गसचेतना प्रकाशितकृता, अनेकानि रेलयानानि निरोधितानि
नोटः — चक्रवातस्य नाम ‘दितवाह’ इति परिवर्त्य प्रवर्तितम्। चेन्नईनगरम्, 28 नवम्बरमासः (हि.स.)। बङ्गाल-सागरतः उत्पन्नं ‘दितवाह’ इति चक्रवातं दृष्ट्वा मौसमविभागेन उत्तरतमिलनाडु,पुडुचेरी, दक्षिणान्ध्रप्रदेशतटीयेषु प्रदेशेषु तीव्रवृष्टेः नारङ्गसचेतना प
राष्ट्रीय आपदा राहत दल के सदस्य


नोटः — चक्रवातस्य नाम ‘दितवाह’ इति परिवर्त्य प्रवर्तितम्।

चेन्नईनगरम्, 28 नवम्बरमासः (हि.स.)। बङ्गाल-सागरतः उत्पन्नं ‘दितवाह’ इति चक्रवातं दृष्ट्वा मौसमविभागेन उत्तरतमिलनाडु,पुडुचेरी, दक्षिणान्ध्रप्रदेशतटीयेषु प्रदेशेषु तीव्रवृष्टेः नारङ्गसचेतना प्रदत्ता। रामेश्वरस्य सागरप्रदेशे वायोः तीव्रता वर्धमानत्वात् सर्वाणि रेलयानानि मण्डपम् इत्यत्रैव निरोधितानि।

‘दितवाह’ इति चक्रवातः षट् होरानां मध्ये तटीयप्रदेशेषु दक्षिण-पश्चिमबङ्गालसागरे च विकसितः। सः उत्तर–उत्तरपश्चिमदिशं प्रति 7 किमी/होरा वेगेन गच्छति। मौसमविभागस्यानुसारं 28 नवम्बरस्य प्रातः 5.30 वादने यः चक्रवातः आसीत्—

त्रिकुण्डमालै (श्रीलङ्का)–दोदक्षिणपश्चिमे 50 किमी, मच्चिक्कलप्पुधुर-उत्तरपश्चिमे 90 किमी, हम्बनटोटा-उत्तरे 230 किमी, पुडुचेरीदक्षिणपूर्वे 440 किमी, चेन्नईनगरे दक्षिणे 540 किमी दूरे स्थितः। सः श्रीलङ्कातटीयप्रदेशान्, दक्षिण-पश्चिमबङ्गालसागरं च अनुसृत्य उत्तर–उत्तरपश्चिमं प्रति प्रवर्तमानः अस्ति, तथा च 30 नवम्बरदिनान्ते उत्तरतमिलनाडु, पुडुचेरी,दक्षिण, आन्ध्रप्रदेश, तटीयप्रदेशान् प्रति आगमनं करिष्यतीति अपेक्ष्यते।

मौसमविभागस्य सचेतनानन्तरं तीव्रवृष्टेः पूर्वमेव सावधान्यर्थं षट्सु जनपदेसु राष्ट्रीयापदानिवारणदलस्य (एनडीआरएफ) सदस्याः प्रेषिताः। तमिलनाडु, पुडुचेरीप्रदेशयोः सम्भाव्यमानां वर्षाणां कारणात् राज्यापदाप्रबन्धनप्राधिकरणस्य अनुरोधेन अरक्कोणम् स्थितस्य चतुर्थदलतः अष्टौ विशिष्टदलाः प्रेषिताः।

तत्र—

• पुडुचेरी प्रदेशाय द्वे दले

• तञ्जावूर्, नागपट्टिनम्, मयिलाडुतुरै, पुडुकोट्टै, कडलूर्, तिरुवारूर्—एतेषु प्रत्येकं जनपदाय एकैकं दलं प्रेषितम्।

एतेषु दलषु 240 सैनिकाः च, रानी, मिकि, लाइका, रैम्बो इत्येते चत्वारः स्पाइनर–श्वानाः अपि समविष्टाः। अद्यापि रामेश्वरस्य सागरे वायोः वेगः 60 किमी प्रतिहोरा जातः, अतः सर्वाणि रेलयानानि मण्डपस्थानके निरुद्धानि। चेन्नईमदुरैकन्याकुमारिदिक् गच्छन्त्यः रेलगाड्यः अपि मण्डपस्थानकादेव प्रेषयितुं प्राधिकारीसूचना दत्ता।एतस्मिन्नेव समये, अतिवृष्टेः निमित्तम् मयिलाडुतुरैजनपदे स्थिताः विद्यालयाः महाविद्यालयाः च अद्य अवकाशं दत्तवन्तः।

हिन्दुस्थान समाचार / ANSHU GUPTA