Enter your Email Address to subscribe to our newsletters

काठमांडूः, 28 नवंबरमासः (हि.स.)।
स्वास्थ्यजनसंख्या मन्त्रिणी डॉ सुधा शर्मा गौतम तथा नेपालस्थितभारतराजदूतः नवीन श्रीवास्तव इत्येतयोः मध्ये शुक्रवासरदिवसे मध्याह्ने औपचारिकम् उपसंगमं अभवत्। सभासमये उभयोरपि राष्ट्रयोः ऐतिहासिकस्य अतुलनीयस्य च मैत्रीसंबन्धस्य महत्वं सूचयन् स्वास्थ्यक्षेत्रे वर्तमानद्विपक्षीयसहकार्यं कथं अधिकं सुदृढं टिकाऊ च प्रभावकारी च कर्तुं शक्येत इति विषये विस्तीर्णा चर्चा अभवत्।
स्वास्थ्य मन्त्रिणी गौतमभारतदेशस्य स्वास्थ्यक्षेत्रे निरन्तरं दत्तसहयोगाय कृतज्ञतां व्यज्य अवदत् यत् नेपालभारतयोः सम्बन्धाः गाढाः विश्वसनीयाश्च।
सा अवोचत् यत् मातृशिशुस्वास्थ्यं मानसिकस्वास्थ्यं स्वास्थ्यबीमायोजनाः राष्ट्रीयौषधप्रयोगशालायाः परीक्षणक्षमतावृद्धिः विदेशेषु कार्यरतानां नेपालीश्रमिकानां स्वास्थ्यसुरक्षा च सरकारस्य प्राथमिकासु स्थिताः।
राजदूतः श्रीवास्तव भारतनेपालसंबन्धस्य महत्त्वं प्रकाशयन् राष्ट्रियौषधप्रयोगशालायाः स्तरोन्नयनाय भवननिर्माणं आवश्यकउपकरणप्रदानं प्रशिक्षितमानवसंसाधनविकासे च सहयोगं निरन्तरं दातुम् आत्मनः प्रतिबद्धतां व्यक्तवान्।
---------------
हिन्दुस्थान समाचार