शांतिसत्ययोः स्थापनायै अत्याचारिणाम् अंतोऽपि आवश्यकः - प्रधानमंत्री मोदी
उडुपी, 28 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे उक्तं यत् भगवद्गीताया उपदेशः केवलं आध्यात्मिकं न, अपि तु राष्ट्रनिर्माणस्य मानवकल्याणस्य च शाश्वतमार्गदर्शनं ददाति। ते अवदन् यत् भगवान् कृष्णेन कुरुक्षेत्रस्य रणभूमौ यः उपदेशः
प्रधानमंत्री नरेन्द्र मोदी शुक्रवार को उडुपी स्थित श्रीकृष्ण मठ में आयोजित लक्ष कंठ गीता पारायण कार्यक्रम को संबोधित करते हुए


उडुपी, 28 नवंबरमासः (हि.स.)।

प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे उक्तं यत् भगवद्गीताया उपदेशः केवलं आध्यात्मिकं न, अपि तु राष्ट्रनिर्माणस्य मानवकल्याणस्य च शाश्वतमार्गदर्शनं ददाति। ते अवदन् यत् भगवान् कृष्णेन कुरुक्षेत्रस्य रणभूमौ यः उपदेशः कृतः, सः दर्शयति यत् शान्तिसत्यस्थापनाय कदाचित् अत्याचारिणां विनाशोऽपि आवश्यकः भवति। एष एव भावः अद्य भारतस्य सुरक्षा नीतौ अपि दृश्यते, यत्र ‘वसुधैव कुटुम्बकम्’ इत्यस्य सह ‘धर्मो रक्षति रक्षितः’ इति मन्त्रः समानमहत्त्वं धारयति।

प्रधानमन्त्रिणा कर्नाटकस्य उडुपी स्थिते श्रीकृष्णमठे आयोजिते लक्षकण्ठ गीता पारायण कार्यक्रमे सम्बोधितं यत् भारतं शान्तेः करुणायाः च संदेशं विश्वे प्रेषयति, किन्तु यदा राष्ट्रस्य सुरक्षायां संकटं आगच्छति तदा दृढसंकल्पेन प्रत्युत्तरं दातुं न पश्चात्तिष्ठति। लालकिलायाः प्राचीरे घोषितस्य ‘मिशन सुदर्शनचक्र’ इत्यस्य लक्ष्यं तदेव—यत् देशस्य महत्वपूर्णस्थलानां औद्योगिकक्षेत्राणां च परितः ऐसी सुरक्षा भित्तिः निर्मीयते, यां शत्रवः भेदयितुं न शक्नुवन्ति।

ते अवदन् यत् यदि शत्रुः आक्रमणस्य दुर्द्धर्षतां करोति तर्हि भारतस्य ‘सुदर्शनचक्र’ तं विनाशयितुं पर्याप्तमेव। हालसम्पन्ने ‘ऑपरेशन सिदूंर’ इत्यत्रापि राष्ट्रेण दहशतवादस्य विरुद्धं दृढता प्रदर्शिता। पहलगामे जातस्य आतंकिआक्रमणस्य कारणात् प्राणहानौ दुःखं व्यक्त्वा ते अवदन् यत् पूर्वे एतादृशेषु प्रसङ्गेषु सरकाराः निष्क्रियाः आसीत्, किन्तु “नवभारतं” न दवाबे नमति, न च स्वनागरिकाणां संरक्षणकर्तव्ये विमुखं भवति।

प्रधानमन्त्रिणा उक्तं यत् ‘सबकासाथ सबकाविकास सबकाविश्वास’ तथा ‘सर्वजनहिताय सर्वजनसुखाय’ इत्यादयः नीतयः श्रीकृष्णस्यैव शिक्षाभ्यः प्रेरणां लभन्ते। श्रीकृष्णः दरिद्रजनानां सहाय्यं समाजस्य अन्त्यपङ्क्तौ स्थितजनस्य प्रति गमनं च उपदिशति। एषा एव प्रेरणा आयुष्मानभारत प्रधानमन्त्रिआवासयोजना इत्यादिषु कल्याणकार्यक्रमेषु अपि निहिता।

ते अवदन् यत् श्रीकृष्णस्य संदेशः नार्याः सम्मानस्य सुरक्षायाश्च आधारभूतः अस्ति, अस्यैव भावनायाः कारणात् ‘नारीशक्ति वन्दन अधिनियम’ इत्यस्य ऐतिहासिकनिर्णयस्य साहसम् अभवत्।

प्रधानमन्त्रिणा उktं यत् श्रीकृष्णः सर्वेषां कल्याणं चिन्तयति, अस्यैव भावनायाः फलरूपेण भारतं ‘वैक्सीन मैत्री’, ‘अन्तरराष्ट्रीय सौर गठबंधन’, ‘वसुधैव कुटुम्बकम्’ इत्यादिषु वैश्विकपहलासु अग्रस्थाने आसीत्। ते अवदन् यत् गीताया शब्दाः केवलं दिशा न प्रदर्शयन्ति, अपि तु राष्ट्रनीतिषु प्रेरणाशक्तिरूपेण कार्यं कुर्वन्ति।

अयोध्यायां हालप्रतीष्ठितां ‘धर्मध्वजाम्’ निर्दिश्य ते अवदन् यत् त्रिदिनपूर्वं ते रामजन्मभूमिमन्दिरे आसन्, अद्य तु उडुप्याः पवित्रभूौ आगमने अवसरः लब्धः। राममन्दिरान्दोलनस्य मध्ये उडुपेः महान् योगदानम् आसीत्, अत्र आगमनेन तेभ्यः आध्यात्मिकः शान्तिसुखानुभवः लभ्यते। मन्दिरपरिसरे माधवाचार्याय समर्पितः विशेषं तोरणद्वारं एतत्सम्बन्धं अधिकं पवित्रयति।

मोदिना उक्तं यत् एकलक्षलोकैः सहगीताश्लोकपठनं केवलं धार्मिककार्यं न, अपि तु भारतस्य सहस्राब्दपरम्परायाः आध्यात्मिकजीवनस्य साक्षात्कारः। यदा एते जनाः एकेन स्वरैः मन्त्रानुच्चारं कुर्वन्ति तदा तस्मात् उत्पन्ना दिव्यऊर्जा मनसि बुद्धौ च नूतनं कम्पनं जनयति।

रामचरितमानसस्य दोहं ‘कलियुग केवल हरि गुण गाहा गावत नर पावहिं भव थाहा’ निर्दिश्य ते अवदन् यत् गीता भक्तिमार्गः च मानवादृशं नूतनदिशां ददाति।

प्रधानमन्त्रिणा उक्तं यत् उडुपी सुशासनस्य ऐतिहासिकं केन्द्रं आसीत्। सन् 1968 मध्ये जनसंघस्य वी एस आचार्य नगरपालिकायां विजयमाप्तवान्, ततः अत्र सुशासनस्य नूतनपरम्परा आरब्धा। ते अवदन् यत् यद्यपि तेषां जन्म गुजरातदेशे अभवत् तथापि गुजरात उडुपी च अत्यन्तं गाढां आध्यात्मिकसम्बन्धं धारयतः। परम्परा अस्ति यत् अत्रस्थितस्य श्रीकृष्णविग्रहस्य पूजा पूर्वं द्वारकायां माता रुक्मिण्या कृताः, अनन्तरं माधवाचार्येण सः विग्रहः उडुपौ संस्थापितः।

प्रधानमन्त्रिणा उक्तं यत् गतवर्षे ते समुद्रे अन्तर्गतम् श्रीद्वारकाधीशं दृष्टवन्तः, तस्मात् प्राप्ता आध्यात्मिकऊर्जा अद्यापि तान् प्रेरयति। एतेन विग्रहेन दृष्टिपातः तेषां आत्मीयं आध्यात्मिकं च आनन्दं दत्तवान्।

ते अवदन् यत् स्वच्छताअभियानं अद्य राष्ट्रव्यापीआन्दोलनरूपेण दृश्यते, किन्तु उडुपी तदेव पञ्चदशाब्दपूर्वं स्वीकृतवद् आसीत्। 1970 दशकात् एव जलापूर्ति ड्रेनेज्संस्थायाः नूतनमॉडलस्य आरम्भः अत्र जातः।

प्रधानमन्त्री अवदन् यत् उडुपी आगत्य गीता मन्त्राणां मध्ये स्थिता संतगुरूजनानां आशीर्वादेन च तस्मै बहवः पुण्यभावाः अनुभूयन्ते। अद्य अस्य अवसरस्य महत्त्वं केवलं कार्यक्रमरूपे न, अपि तु भारतस्य आध्यात्मिकशक्तेः वैश्विकसंदेशरूपे अस्ति।

-------

हिन्दुस्थान समाचार