Enter your Email Address to subscribe to our newsletters

नवदेहली, 28 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य कर्नाटक–गोवा प्रदेशयोः प्रवासं करिष्यति। पूर्वाह्णे प्रायेण ११:३० वादने प्रधानमन्त्री उडुपी-नगरस्थितः श्रीकृष्ण-मठस्य दर्शनं करिष्यति। ततो गोवाराज्यं प्रति गमिष्यति। तत्र अपराह्णे प्रायेण ३:१५ वादने श्रीसंस्थान-गोकर्ण-पर्तगाली-जीवोत्तम-मठस्य ५५०-वर्ष-उत्सवस्य अवसर्ये आयोजिते ‘सार्ध-पञ्चशतमानोत्सवे’ भागं ग्रहीष्यति।
उडुपी-कार्यक्रमः
आधिकारिक-वक्तव्येन सूचितम्—प्रधानमन्त्री मोदी उडुपी-क्षेत्रे श्रीकृष्ण-मठं द्रष्टुं गमिष्यन्ति तथा लाख-कण्ठ-गीता-पारायण-कार्यक्रमे भागं स्वीकुर्युः। अस्मिन् कार्यक्रमे विद्यार्थीभिः, भिक्षुभिः, विद्वद्भिः, विविधक्षेत्र-नागरिकैः च सहितं एकलक्ष-जनाः सहभागिनः भविष्यन्ति। सर्वे एकस्वरेण श्रीमद्भगवद्गीताया पाठंपूर्वकं पारायणं करिष्यन्ति।
प्रधानमन्त्री कृष्णस्य गर्भगृहस्य पुरतः स्थितस्य सुवर्ण–तीर्थ–मण्डपस्य उद्घाटनम् अपि करिष्यन्ति। पवित्रायाः कनकना-किंद्यै ‘कनक-कवचं’ स्वर्णकवचं समर्पयिष्यन्ति। कनकना-किंदि एकं पवित्रं द्वारम् अस्ति, यतः सांप्रतं विश्वासः अस्ति यत् सन्तः कनकदासः अस्मात् एव द्वारात् भगवानं कृष्णं दिव्यरूपेण अवलोकयामास।
उडुपी-प्रदेशे स्थितः श्रीकृष्ण-मठः अष्टशतानि वर्षाणि पूर्वं वेदान्त-द्वैत-दर्शनस्य संस्थापकः श्रीमाधवाचार्येण संस्थापितः।
गोवा-कार्यक्रमः
आधिकारिक-विज्ञप्त्या सूचितम् यत् श्रीसंस्थान-गोकर्ण-पर्तगाली-जीवोत्तम-मठस्य ५५०-वर्ष-उत्सवस्य ‘सार्ध-पञ्चशतामनोत्सव’ इति विशेष-संभावनायाः अवसरे प्रधानमन्त्री दक्षिण-गोवाराज्यस्य कैनाकोना-प्रदेशे स्थितं मठं द्रष्टुं गमिष्यन्ति।
प्रधानमन्त्री श्रीसंस्थान-गोकर्ण-पर्तगाली-जीवोत्तम-मठे ७७-फीट्-उन्नतां प्रभोः श्रीरामस्य कांस्य-प्रतिमां अनावरणं करिष्यति, तथा ‘रामायण-थीम-पार्क्-गार्डन’ इत्यस्य उद्घाटनम् अपि करिष्यन्ति। अस्य प्रसङ्गे प्रधानमन्त्रि विशेष-डाक-तिकटम् एकं च स्मारक-नाणकं (स्मारक-शिलामुद्राम्) अपि प्राकशयिष्यति , उपस्थित-जनसमूहेन सह सम्भाषणं करिष्यति।
श्रीसंस्थान-गोकर्ण-पर्तगाली-जीवोत्तम-मठः प्रथमः गौड-सारस्वत-ब्राह्मण-वैष्णव-मठः अस्ति। अयं द्वैत-सम्प्रदायं अनुसरति। मठस्य स्थापना जगद्गुरु-माधवाचार्येण त्रयोदश-शताब्द्यां कृता आसीत्। अस्य मठस्य मुख्यालयः दक्षिण-गोवाराज्यस्य पर्तगाली नामकस्य नगरस्य समीपे कुशावती-नद्याः तीरे स्थितः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता