Enter your Email Address to subscribe to our newsletters

उडुपी, 28 नवंबरमासः (हि.स.)|प्रधानमन्त्री नरेन्द्रमोदी अद्य शुक्रवासरस्य प्रातः कर्नाटक–प्रदेशस्य भ्रमणे आगच्छन्। मंगलुरु–विमानतलात् ते उडुपी–नगरं प्रति प्रस्थिताः, यत्र तेषां रोड्–शो आरब्धः। अस्मिन् सन्दर्भे मार्गस्य पार्श्वयोः स्थिताः बहवः जनाः प्रधानमन्त्रिणः सस्नेहं स्वागतं कृतवन्तः।
प्रधानमन्त्री मोदी श्रीकृष्णमठस्य गीतोत्सव–कार्यक्रमे भागं ग्रहिष्यन्ति। मंगलुरु–विमानतले राज्य–शासनस्य पक्षे दक्षिण–कन्नड–जिल्ला–प्रभारीमन्त्री दिनेशगुण्डूरावेन तेषां हार्दं स्वागतं कृतम्। अस्मिन् अवसरे विधायकः राजेशनायकः, भागीरथी–मुराल्या, ग्रेटर्–बेंगलुरु–नगर–निगमस्य आयुक्तः महेश्वररावः, पुलिस–आयुक्तः सुधीरकुमाररेड्डी, उपायुक्तः एच.वी. दर्शन तथा अन्ये बहवः अधिकारी उपस्थिताः आसन्।
ततઃ प्रधानमन्त्री मोदी उडुपी–नगरं प्राप्तवन्तः तथा भव्यः रोड्–शो प्रारब्धः। प्रभाते एव तेषां आगमनस्य प्रतीक्षां कुर्वन्तः सहस्रशः जनाः तान् पुष्पैः सिञ्चन्तः अभिनन्दितवन्तः। प्रधानमन्त्रिणा अपि जनानां प्रति प्रकंपनेन अभिवादनं प्रत्यग्रहीत।
उल्लेखनीयम् यत् प्रधानमन्त्रि अद्य कर्नाटके उडुपी–प्रदेशस्थं श्रीकृष्ण–मठं दरिश्यन्ते। ततः ते गोवायाः दिशि प्रस्थिताः भविष्यन्ति, यत्र अपराह्णे ३:१५ वादने श्री–संस्थान–गोकर्ण–पर्तगली–जीवोत्तम–मठस्य ५५०-वर्ष–उत्सवस्य अवसरि आयोजिते ‘सार्ध–पञ्चशताब्दि–महोत्सवे’ ते सहभागित्वं करिष्यन्ति।
---------------
हिन्दुस्थान समाचार