प्रधानमन्त्री नरेन्द्रमोदी अद्य कर्नाटकस्य उडुपी-प्रदेशे स्थितं श्रीकृष्णमठम् आगच्छन्ति
उडुपी, 28 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रे मोदी अद्य कर्नाटकप्रदेशस्य उडुपी-नगरं प्रति यात्रां करिष्यन्ति। ते उडुप्यां श्रीकृष्णमठस्य दर्शनं करिष्यति तथा च ‘लक्ष-कण्ठ-गीता-पारायण’ इति कार्यक्रमे भागं ग्रहीष्यति, यस्मिन् छात्राः, सन्ताः, व
Pm tour


उडुपी, 28 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रे मोदी अद्य कर्नाटकप्रदेशस्य उडुपी-नगरं प्रति यात्रां करिष्यन्ति। ते उडुप्यां श्रीकृष्णमठस्य दर्शनं करिष्यति तथा च ‘लक्ष-कण्ठ-गीता-पारायण’ इति कार्यक्रमे भागं ग्रहीष्यति, यस्मिन् छात्राः, सन्ताः, विद्वांसः, विविध-वर्गीय-नागरिकाश्च सहिताः लक्षाधिकाः जनाः सहभागी भविष्यति। प्रधानमन्त्री श्रीमद्भगवद्गीतायाः सामूहिक-पाठस्य अवलोकनमपि करिष्यति। अनेन सह, प्रधानमन्त्री श्रीकृष्णमन्दिरस्य गर्भगृहस्य पुरतः ‘सुवर्ण-तीर्थ-मण्डपं’ उद्घाटयिष्यन्ति। तथा ‘कनकन-किंदि’ इति पवित्रस्थले कनक-कवचमपि समर्पयिष्यन्ति, यत्र कनकदासेन भगवान् कृष्णस्य दिव्य-दर्शनं प्राप्तम् इति प्रसिद्धम्।

अस्य यात्राविषये सोशल-माध्यमेषु प्रकाशिते सन्देशे प्रधानमन्त्री मोदी अवदन्—

“उडुप्यां श्रीकृष्णमठस्य दर्शनं कर्तुं, लक्षकण्ठगीतापारायण-कार्यक्रमे च भागं ग्रहीतुं प्राप्तं अवसरं मम कृते गौरवस्य विषयः। एषः विशेषः कार्यक्रमः, यः गीता-पाठार्थं समाजस्य विविधान् वर्गान् एकत्र आनयति। अस्य मठस्य अस्माकं सांस्कृतिक-जीवने विशेष-महत्त्वं वर्तते। श्रीमाधवाचार्य-प्रेरितं च एतत् मठं समाजसेवायाम् अग्रणीस्थानं धारयति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता