रूसस्य राष्ट्रपतिः पुतिनः 4 दिसंबर दिनांके आगमिष्यति नव दिल्लीं, प्रधानमंत्रिणा सह भविष्यति शिखरवार्ता
नवदिल्ली, 28 नवंबरमासः (हि.स.)। राष्ट्रस्य रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुतिनः प्रधानमन्त्रिणा नरेन्द्रेण मोदिना प्रेषितं निमन्त्रणं गृहीत्वा द्विदिनीय यात्रां कृत्वा दिसंबर मासस्य चतुर्थे दिने भारतस्य राजकीय यात्रां करिष्यन्ति। अस्मिन्नेव समय
Putin, nerendramodi


नवदिल्ली, 28 नवंबरमासः (हि.स.)।

राष्ट्रस्य रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुतिनः प्रधानमन्त्रिणा नरेन्द्रेण मोदिना प्रेषितं निमन्त्रणं गृहीत्वा द्विदिनीय यात्रां कृत्वा दिसंबर मासस्य चतुर्थे दिने भारतस्य राजकीय यात्रां करिष्यन्ति। अस्मिन्नेव समये ते देहल्यां आयोजितायां त्रयोविंशतितमायां भारत रूस वार्षिक शिखरवार्तायां भागं ग्रहीष्यन्ति।

विदेश मन्त्रालयेन शुक्रवार दिने प्रेस विज्ञप्तिः प्रकाशिता येन सर्वं विवृतमभवत्। राष्ट्रपति पुतिन प्रधानमन्त्रिणा नरेन्द्रेण मोदिना सह वार्तां करिष्यन्ति। तस्मात् पूर्वं राष्ट्रपतिः द्रौपदी मुर्मु तेषां स्वागतार्थं भोजं आयोजितवत्याः।

पुतिन इत्यस्य एषा आगामी राजकीय यात्रा भारत रूसयोः नेतृत्वाय द्विपक्षीय सम्बन्धानां समीक्षा कर्तुं अवसरं दास्यति। तेन सह विशेषं च अधिकारप्राप्तं च रणनीतिक भागीदारीं अधिकं सुदृढीकरणाय दर्शनेन विनियोजितं भविष्यति।

अत एव क्षेत्रीय विषयेषु वैश्विक विषयेषु च उभयपक्षहितसम्बद्धानां विषयाणां विषये मतविनिमयः भविष्यति। उल्लेखनीयम् यत् भारत रूसदेशयोः मध्ये क्रमेण एकस्मिन् अपरस्मिन् देशे वार्षिकशिखर वार्ता नित्यं आयोज्यते। राष्ट्रपति व्लादिमीर पुतिन सन् द्विविंशत्येकाधिके वर्षे भारतम् आगतानि आसीत्। अस्मिन् वर्षे बहूनि रक्षणसौदानां सम्भावना अस्ति। तेन सह उभयोः नेतृयोः मध्ये युक्रेन संघर्षः अपि चर्चाविषयः भविष्यति।

----------

हिन्दुस्थान समाचार