रेलमन्त्रिणा देहलीचण्डीगढरेलमार्गस्य विण्डो-ट्रेलिङ्ग् निरीक्षणम् कृतम्
नवदेहली, 28 नवंबरमासः (हि.स.)। रेलमन्त्रिणा अश्विनीवैष्णवेन अद्य शुक्रवासरे रेलराज्यमन्त्रिणा रवनीतसिंहेन सह दिल्ली-चण्डीगढ़पर्यन्तं विण्डो-ट्रेलिङ् निरीक्षणं कृतम्। निरीक्षणकाले उभौ मन्त्री ट्रैक-अनुरक्षकैः पीडब्ल्यूआई-अधिकृतैः सिग्नल-विभागस्य अनु
रेल  अश्विनी वैष्णव और रेल राज्य मंत्री रवनीत सिंह दिल्ली से चंडीगढ़ तक विंडो ट्रेलिंग इंस्पेक्शन के दौरान


नवदेहली, 28 नवंबरमासः (हि.स.)। रेलमन्त्रिणा अश्विनीवैष्णवेन अद्य शुक्रवासरे रेलराज्यमन्त्रिणा रवनीतसिंहेन सह दिल्ली-चण्डीगढ़पर्यन्तं विण्डो-ट्रेलिङ् निरीक्षणं कृतम्। निरीक्षणकाले उभौ मन्त्री ट्रैक-अनुरक्षकैः पीडब्ल्यूआई-अधिकृतैः सिग्नल-विभागस्य अनुरक्षण-कर्मचारीभिः च सह संवादं कृतवन्तौ। तस्मिन् अवसरे क्षेत्रे कर्म निर्वहणसमये सम्पद्यमानाः बाधाः, चुनौतयः च कर्मचारीभिः मन्त्रीद्वयाय निवेदिताः। रेलमन्त्रिणा सिग्नल्-प्रणालीनां रिले-व्यवस्थायाः, पॉइण्ट्स्-टर्नआउट्-व्यवस्थायाः, क्रॉसिङ्-तन्त्रस्य च विविधाः तांत्रिकाः पक्षाः विस्तारतः अध्यवसिताः।

निरीक्षणकाले रेलमन्त्रिणा विश्वस्तरे उपयुज्यमानाः उन्नताः सिग्नल्-प्रक्रियाः लौहपठ-अनुरक्षणपद्धतयः च उल्लिखिताः, उत्तमां कार्यपद्धतिं अंगीकरणाय कर्मचारीन् प्रेरितवन्तः। ते अवोचन्— “आधुनिकस्य सुरक्षितस्य च रेलपरिचालनस्य निमित्तं अनुरक्षणस्य गुणोन्नतिः नित्यं अत्यावश्यकाऽस्ति।”

-----

हिन्दुस्थान समाचार / अंशु गुप्ता