Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 28 नवंबरमासः (हि.स.)।
उत्तरप्रदेशस्य मीरजापुरजनपदे द्विसप्ततितम्या राष्ट्रीयवरिष्ठवॉलीबॉलचैम्पियनशिपस्य पुरुषमहिला वर्गयोः आयोजनस्य उपलक्ष्ये सम्पादिता प्रचाररथयात्रा शुक्रवारस्य दिने महाशक्ति इंटर कॉलेज बिहसडा इत्यत्र सस्नेहम् आदृताऽभवत्।
रथयात्रा उत्तरप्रदेशस्य विविधजनपदान् अतीत्य मीरजापुरं प्राप्ता, यत्र जिला ओलंपिक वॉलीबॉलसंघस्य महासचिवेन एसपी त्रिपाठी इत्यनेन नेतृत्वे क्रीडकाः शिक्षकाः च स्वागतं कृतवन्तः।
विद्यालयस्य प्रधानाचार्यः सुशीलसिंह: सह शिक्षकैः छात्रैः च रथयात्रादलस्य माल्याभिषेकेन सम्मानः कृतः। तस्मिन् अवसरि क्षेत्रीयक्रीडकानां उपस्थिति कार्यक्रमं अधिकमुत्साहपूर्णं कृतवती।
रथयात्रायाः नेतृत्वं कुर्वन् डा अभिमन्यु सिंह: सर्वान् क्रीडकान् क्रीडाप्रेमिणः छात्रछात्राश्च ४ जनवरीतः ११ जनवरीपर्यन्तं वाराणस्यां सिगरास्तेडियम् इति स्थले भविष्यन्त्यां राष्ट्रीयवॉलीबॉलस्पर्धायां सहभागितायै आमन्त्रितवन्तः।
कार्यक्रमस्य संचालनं जूडोसंघस्य सचिवेन अश्विनीकुमारपाण्डेने कृतम्।
जिलाक्रीडाधिकारी धर्मवीरसिंहः, खेलजनचेतनासमितेः अध्यक्षः विजयसिंहः, विक्रमसिंहः, महेन्द्र बिन्दः, रविन्द्रप्रतापसिंहः, शिखरसिंहः च अन्ये क्रीडाप्रेमिणः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार