Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 28 नवंबरमासः (हि.स.)। उत्तर प्रदेशस्य प्रायः 1.32 लक्षपरिषदीयविद्यालयेषु 4 दिसंबरतः 11 दिसंबरपर्यन्तं “भारतीय भाषा उत्सव–2025” आयोज्यते, यस्मिन् प्रायः 1.48 कोटि छात्राः सहभागी भविष्यन्ति। अस्य सप्तदिनस्य कार्यक्रमस्य आयोजना भारतस्य शिक्षा मंत्रालयस्य निर्देशे क्रियते। उत्सवस्य नेतृत्वं बेसिक शिक्षामन्त्री श्री संदीपसिंहः करिष्यति। आयोजनस्य थीम “मैनी लैंग्वेज, वन इमोशन” इति निर्धारिता।
मन्त्री श्री संदीपसिंह शुक्रवार दिवसे उक्तवान् यत् अस्य उत्सवस्य लक्ष्यं छात्रेषु मातृभाषायाः प्रति गर्वः, भारतीय भाषासु सम्मानः, बहुभाषीय संस्कृत्याः भावनात्मकशक्तिः च प्रवर्धयितुम् अस्ति। उत्सवस्य समापनं महाकविः सुब्रह्मण्यभारतीजयंती दिवसे भविष्यति। सप्तदिनस्य कार्यक्रमे प्रतिदिनं पृथक् थीम निर्धारिता अस्ति।
04 दिसंबरे–विद्यालयेषु “भाषा वृक्ष” तथा भाषाई विरासतवाल्।
05 दिसंबरे–काव्यगीत प्रस्तुतिकरणम्।
06 दिसंबरे–त्योहाराधारित सांस्कृतिक कार्यक्रमः तथा भाषा पॉडकास्ट्।
08 दिसंबरे–कहावत् संवादः ‘भाषा मित्र’ क्रियाकलापः।
09 दिसंबरे–भाषा बन्धु पत्रः तथा बहुभाषीय कथा श्रृंखला।
10 दिसंबरे–भाषा अन्वेषण क्लब।
11 दिसंबरे–इंटरएक्टिव भाषा मेला तथा भाषा-रंगमञ्च आयोजनम्। महानिदेशकः, स्कूलशिक्षा, श्रीमती मोनिकारानी उक्तवती यत् “भारतीयभाषा-उत्सव–2025” छात्रेषु मातृभाषायाः प्रति आत्मीयता च भारतीय भाषासु सम्मानं च दृढीकरिष्यति तथा राष्ट्रीय शिक्षा नीति–2020 इत्यस्य भावना विद्यालयेषु प्रभावी रूपेण स्थापयिष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani